मुनय ऊचुः -
उमाया भुवनेशान्यास्सूत सर्वार्थवित्तम ।
अवतारं समाचक्ष्व यतो जाता सरस्वती ॥
या गीयते परब्रह्ममूलप्रकृतिरीश्वरी ।
निराकारापि साकारा नित्यानन्दमयी सती ॥
सूत उवाच -
तापसाः शृणुत प्रेम्णा चरित्रं परमं महत् ।
यस्य विज्ञानमात्रेण नरो याति परां गतिम् ॥
देवदानवयोर्युद्धमेकदासीत्परस्परम् ।
महामायाप्रभावेणामराणां विजयोऽभवत् ॥
ततोऽवलिप्ता अमरास्स्वप्रशंसां वितेनिरे ।
वयं धन्या वयं धन्याः किं करिष्यन्ति नोऽसुराः ॥
ये प्रभावं समालोक्यास्माकं परमदुःसहम् ।
भीता नागालयं याता यातयातेति वादिनः ॥
अहो बलमहो तेजो दैत्यवंशक्षयङ्करम् ।
अहो भाग्यं सुमनसामेवं सर्वेऽभ्यवर्णयन् ॥
तत आविरभूत्तेजः कूटरूपन्तदैव हि ।
अदृष्टपूर्वं तद्दृष्ट्वा विस्मिता अभवन्सुराः ॥
किमिदं किमिदं चेति रुद्धकण्ठास्समब्रुवन ।
अजानन्तः परं श्यामानुभावं मानभञ्जनम् ॥
तत आज्ञापयद्देवान्देवानामधिनायकः ।
यात यूयं परीक्षध्वं याथातथ्येन किन्विति ॥
सुरेन्द्रप्रेरितो वायुर्महसः सन्निधिं गतः ।
कस्त्वं भोरिति सम्बोध्यावोचदेनं च तन्महः ॥
इति पृष्टस्तदा वायुर्महसातिगरीयसा ।
वायुरस्मि जगत्प्राणस्साभिमानोऽब्रवीदिदम् ॥
जङ्गमाजङ्गमं सर्वमोतप्रोतमिदं जगत् ।
मय्येव निखिलाधारे चालयाम्यखिलं जगत् ॥
तदोवाच महातेजः शक्तोऽसि यदि चालने ।
धृतमेतत्तृणं वायो चालयस्व निजेच्छया ॥
ततः सर्वप्रयत्नेनाकरोद्यत्नं सदागतिः ।
न चचाल यदा स्थानात्तदासौ लज्जितोऽभवत ॥
तूष्णीं भूत्वा ततो वायुर्जगामेन्द्रसभां प्रति ।
कथयामास तद् वृत्तं स्वकीयाभिभवान्वितम् ॥
सर्वेशत्वं वयं सर्वे मृषैवात्मनि मन्महे ।
न पारयामहे किञ्चिद्विधातुं क्षुद्रवस्त्वपि ॥
ततश्च प्रेषयामास मरुत्वान्सकलान्सुरान् ।
न शेकुस्ते यदा ज्ञातुं तदेन्द्रः स्वयमभ्यगात् ॥
मघवन्तमथायान्तं दृष्ट्वा तेजोतिदुःसहम् ।
बभूवान्तर्हितं सद्यो विस्मितोऽभूच्च वासवः ॥
चरित्रमीदृशं यस्य तमेव शरणं श्रये ।
इति सञ्चिन्तयामास सहस्राक्षः पुनःपुनः ॥
एतस्मिन्नन्तरे तत्र निर्व्याजकरुणातनुः ।
तेषामनुग्रहं कर्तुं हर्तुं गर्वं शिवाङ्गना ॥
चैत्रशुक्लनवम्यां तु मध्याह्नस्थे दिवाकरे ।
प्रादुरासीदुमा देवी सच्चिदानन्दरूपिणी ॥
महोमध्ये विराजन्ती भासयन्ती दिशो रुचा ।
बोधयन्ती सुरान्सर्वान्ब्रह्मैवाहमिति स्फुटम् ॥
चतुर्भिर्दधती हस्तैर्वरपाशाङ्कुशाभयान् ।
श्रुतिभिस्सेविता रम्या नवयौवनगर्विता ॥
रक्ताम्बरपरीधाना रक्तमाल्यानुलेपना ।
कोटिकन्दर्प्पसङ्काशा चन्द्रकोटिसमप्रभा ॥
व्याजहार महामाया सर्वान्तर्य्यामिरूपिणी ।
साक्षिणी सर्वभूतानां परब्रह्मस्वरूपिणी ॥
उमोवाच -
न ब्रह्मा न मुरारातिर्न पुरारातिरीश्वरः ।
मदग्रे गर्वितुं किञ्चित्का कथान्यसुपर्वणाम् ॥
परं ब्रह्म परं ज्योतिः प्रणवद्वन्द्वरूपिणी ।
अहमेवास्मि सकलं मदन्यो नास्ति कश्चन ॥
निराकारापि साकारा सर्वतत्त्वस्वरूपिणी ।
अप्रतर्क्यगुणा नित्या कार्यकारणरूपिणी ॥
कदाचिद्दयिताकारा कदाचित्पुरुषाकृतिः ।
कदाचिदुभयाकारा सर्वाकाराहमीश्वरी ॥
विरञ्चिः सृष्टिकर्ताहं जगत्पाताहमच्युतः ।
रुद्रः संहारकर्ताहं सर्वविश्वविमोहिनी ॥
कालिका कमलावाणी मुखास्सर्वा हि शक्तयः ।
मदंशादेव सञ्जातास्तथेमास्सकलाः कलाः ॥
मत्प्रभावाज्जितास्सर्वे युष्माभिर्द्दितिनन्दनाः ।
तामविज्ञाय मां यूयं वृथा सर्वेशमानिनः ॥
यथा दारुमयीं योषां नर्तयत्यैन्द्रजालिकः ।
तथैव सर्वभूतानि नर्तयाम्यहमीश्वरी ॥
मद्भयाद्वाति पवनः सर्वं दहति हव्यभुक् ।
लोकपालाः प्रकुर्वन्ति स्वस्वकर्माण्यनारतम् ॥
कदाचिद्देववर्गाणां कदाचिद्दितिजन्म नाम् ।
करोमि विजयं सम्यक्स्वतन्त्रा निजलीलया ॥
अविनाशि परं धाम मायातीतं परात्परम् ।
श्रुतयो वर्णयन्ते यत्तद्रूपन्तु ममैव हि ॥
सगुणं निर्गुणं चेति मद्रूपं द्विविधं मतम् ।
मायाशबलितं चैकं द्वितीयन्तदनाश्रितम् ॥
एवं विज्ञाय मां देवास्स्वं स्वं गर्वं विहाय च ।
भजत प्रणयोपेताः प्रकृतिं मां सनातनीम् ॥
इति देव्या वचः श्रुत्वा करुणागर्भितं सुराः ।
तुष्टुवुः परमेशानीं भक्तिसन्नतकन्धराः ॥
क्षमस्व जगदीशानि प्रसीद परमेश्वरि ।
मैवं भूयात्कदाचिन्नो गर्वो मातर्द्दयां कुरु ॥
ततःप्रभृति ते दैवा हित्वा गर्वं समाहिताः ।
उमामाराधयामासुर्यथापूर्वं यथाविधि ॥
इति वः कथितो विप्रा उमाप्रादुर्भवो मया ।
यस्य श्रवणमात्रेण परमं पदमश्नुते ॥