मधुरापुरनायिके नमस्ते
मधुरालापिशुकाभिरामहस्ते ।
मलयध्वजपाण्ड्यराजकन्ये
मयि मीनाक्षि कृपां विधेहि धन्ये ।।
कचनिर्जितकालमेघकान्ते
कमलासेवितपादपङ्कजान्ते ।
मधुरापुरवल्लभेष्टकान्ते
मयि मीनाक्षि दयां विधेहि शान्ते ।।
कुचयुग्मविधूतचक्रवाके
कृपया पालितसर्वजीवलोके ।
मलयध्वजसन्ततेः पताके
मयि मीनाक्षि कृपां निधेहि पाके ।।
विधिवाहनजेतृकेलियाने
विमतामोटनपूजितापदाने ।
मधुरेक्षणभावपूतमीने
मयि मीनाक्षि कृपां विधेहि दीने ।।
तपनीयपयोजिनीतटस्थे
तुहिनप्रायमहीधरोदरस्थे ।
मदनारिपरिग्रहे कृतार्थे
मयि मीनाक्षि कृपां निधेहि सार्थे ।।
कलकीरकलोक्तिनाददक्षे
कलितानेकजगन्निवासिरक्षे ।
मदनाशुगहल्लकान्तपाणे
मयि मीनाक्षि कृपां कुरु प्रवीणे ।।
मधुवैरिविरिञ्चिमुख्यसेव्ये
मनसा भावितचन्द्रमौलिसव्ये ।
तरसा परिपूतयज्ञहव्ये
मयि मीनाक्षि कृपां विधेहि भव्ये ।।
जगदम्ब कदम्बमूलवासे
कमलामोदमुखेन्दुमन्दहासे ।
मदमन्दिरचारुदृग्विलासे
मयि मीनाक्षि कृपां निधेहि दासे ।
पठतामनिशं प्रभातकाले
मणिमालाष्टकमष्टभूतिदायि ।
घटिकाशतचातुरीं प्रदद्यात्
करुणापूर्णकटाक्षसन्निवेशम् ।।