व्योमकेशं कालकालं व्यालमालं परात्परम्|
देवदेवं प्रपन्नोऽस्मि कथं मे जायते भयम्|
शूलहस्तं कृपापूर्णं व्याघ्रचर्माम्बरं शिवम्|
वृषारूढं प्रपन्नोऽस्मि कथं मे जायते भयम्|
अष्टमूर्तिं महादेवं विश्वनाथं जटाधरम्|
पार्वतीशं प्रपन्नोऽस्मि कथं मे जायते भयम्|
सुरासुरैश्च यक्षश्च सिद्धैश्चाऽपि विवन्दितम्|
मृत्युञ्जयं प्रपन्नोऽस्मि कथं मे जायते भयम्|
नन्दीशमक्षरं देवं शरणागतवत्सलम्|
चन्द्रमौलिं प्रपन्नोऽस्मि कथं मे जायते भयम्|
लोहिताक्षं भवाम्बोधितारकं सूर्यतेजसम्|
शितिकण्ठं प्रपन्नोऽस्मि कथं मे जायते भयम्|
शङ्करं लोकपालं च सुन्दरं भस्मधारिणम्|
वामदेवं प्रपन्नोऽस्मि कथं मे जायते भयम्|
त्रिनेत्रं त्रिपुरध्वान्तध्वंसिनं विश्वरूपिणम्|
विरूपाक्षं प्रपन्नोऽस्मि कथं मे जायते भयम्|
कैलासशैलनिलयं तपःसक्तं पिनाकिनम्|
कण्ठेकालं प्रपन्नोऽस्मि कथं मे जायते भयम्|
प्रीतात्मानं महैश्वर्यदानं निर्वाणरूपिणम्|
गङ्गाधरं प्रपन्नोऽस्मि कथं मे जायते भयम्|
य इदं स्तोत्ररत्नाख्यं शिवस्य भयहारकम्|
पठेदनुदिनं धीमान् तस्य नास्ति भयं भुवि|
मन्दाकिनी स्तोत्र
जयतु जयतु मन्दाकिनि तव सलिलं धवलम् । नय विलयं भागीरथि नम �....
Click here to know more..गणेश पंचरत्न स्तोत्र
मुदा करात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलास�....
Click here to know more..देवगण असुरों के सामने युद्ध में हारने लगे तब उन्होंने देवी माँ से इस स्तुति से प्रार्थना की थी