कलय कलावित्प्रवरं कलया नीहारदीधितेः शीर्षम् ।
सततमलङ्कुर्वाण प्रणतावनदीक्ष यक्षराजसख ॥
कान्तागेन्द्रसुतायाः शान्ताहङ्कारचिन्त्यचिद्रूप ।
कान्तारखेलनरुचे शान्तान्तःकरणं दीनमव शम्भो ॥
दाक्षायणीमनोम्ब्रुजभानो वीक्षावितीर्णविनतेष्ट ।
द्राक्षामधुरिममदभरशिक्षाकत्रीं प्रदेहि भम वाचम् ॥
पारदसमानवर्णौ नीरदनीकाशदिव्यगलदेशः ।
पादनतदेवसङ्घः पशुमनिशं पातु मामीशः ॥
भव शम्भो गुरुरूपेणाशु मेऽद्य करुणाब्धे ।
चिरतरमिह वासं कुरु जगतीं रक्षन् प्रबोधनानेन ॥
यक्षाधिपसखमनिशं रक्षाचतुरं समस्तलोकानाम् ।
वीक्षादापितकवितं दाक्षायण्याः पतिं नौमि ॥
यमनियमनिरतलभ्यं शमदममुखषङ्कदानकृतदीक्षम् ।
रमणीयपदसरोजं शमनाहितमाश्रये सततम् ॥
यमिहृन्मानसहंसं शमिताघौघं प्रणाममात्रेण ।
अमितायुःप्रदपूजं कमितारं नौमि शैलतनयायाः ॥
येन कृतमिन्दुमौले मानववर्येण तावकस्मरणम् ।
तेन जितं जगदखिलं को न ब्रूते सुरार्यतुल्येन ॥
सप्तनदी अपराध क्षमापण स्तोत्र
गङ्गे ममापराधानि क्षमस्व शिवजूटजे। सर्वपापविनाशय त्वा....
Click here to know more..अपराजिता स्तोत्र
श्रीत्रैलोक्यविजया अपराजिता स्तोत्रम् । ॐ नमोऽपराजिता....
Click here to know more..शांति, आध्यात्मिक विकास और सुरक्षा के लिए विष्णु मंत्र
ॐ सर्वेशाय स्वाहा । ....
Click here to know more..