देवा ऊचुः ।
नमो देवि महाविद्ये सृष्टिस्थित्यन्तकारिणि ।
नमः कमलपत्राक्षि सर्वाधारे नमोऽस्तु ते ॥
सविज्ञतैजसप्राज्ञविराट्सूत्रा
नमो व्याकृतरूपायै कूटस्थायै नमो नमः ॥
दुर्गे सर्गादिरहिते दुष्टसंरोधनार्गले ।
निरर्गलप्रेमगम्ये भर्गे देवि नमोऽस्तु ते ॥
नमः श्रीकालिके मातर्नमो नीलसरस्वति ।
उग्रतारे महोग्रे ते नित्यमेव नमो नमः ॥
नमः पीताम्बरे देवि नमस्त्रिपुरसुन्दरि ।
नमो भैरवि मातङ्गि धूमावति नमो नमः ॥
छिन्नमस्ते नमस्तेऽस्तु क्षीरसागरकन्यके ।
नमः शाकम्भरि शिवे नमस्ते रक्तदन्तिके ॥
निशुम्भशुम्भदलनि रक्तबीजविनाशिनि ।
धूम्रलोचननिर्णाशे वृत्रासुरनिबर्हिणि ॥
चण्डमुण्डप्रमथिनि दानवान्तकरे शिवे ।
नमस्ते विजये गङ्गे शारदे विकचानने ॥
पृथ्वीरूपे दयारूपे तेजोरूपे नमो नमः ।
प्राणरूपे महारूपे भूतरूपे नमोऽस्तु ते ॥
विश्वमूर्ते दयामूर्ते धर्ममूर्ते नमो नमः ।
देवमूर्ते ज्योतिमूर्ते ज्ञानमूर्ते नमोऽस्तु ते ॥
गायत्रि वरदे देवि सावित्रि च सरस्वति ।
नमः स्वाहे स्वधे मातर्दक्षिणे ते नमो नमः ॥
नेति नेतीति वाक्यैर्या बोध्यते सकलागमैः ।
सर्वप्रत्यक्स्वरूपां तां भजामः परदेवताम् ॥
भ्रमरैर्वेष्टिता यस्माद् भ्रामरी या ततः स्मृता ।
तस्यै देव्यै नमो नित्यं नित्यमेव नमो नमः ॥
नमस्ते पार्श्वयोः पृष्ठे नमस्ते पुरतोऽम्बिके ।
नम ऊर्ध्वं नमश्चाधः सर्वत्रैव नमो नमः ॥
कृपां कुरु महादेवि मणिद्वीपाधिवासिनि ।
अनन्तकोटिब्रह्माण्डनायिके जगदम्बिके ॥
जय देवि जगन्मातर्जय देवि परात्परे ।
जय श्रीभुवनेशानि जय सर्वोत्तमोत्तमे ॥
कल्याणगुणरत्नानामाकरे भुवनेश्वरि ।