योऽत्रावतीर्य शकलीकृत- दैत्यकीर्ति-
र्योऽयं च भूसुरवरार्चित- रम्यमूर्तिः।
तद्दर्शनोत्सुकधियां कृततृप्तिपूर्तिः
सीतापतिर्जयति भूपतिचक्रवर्ती ।
ब्राह्मी मृतेत्यविदुषामप- लापमेतत्
सोढुं न चाऽर्हति मनो मम निःसहायम्।
वाच्छाम्यनुप्लवमतो भवतः सकाशा-
च्छ्रुत्वा तवैव करुणार्णवनाम राम।
देशद्विषोऽभिभवितुं किल राष्ट्रभाषां
श्रीभारतेऽमरगिरं विहितुं खरारे।
याचामहेऽनवरतं दृढसङ्घशक्तिं
नूनं त्वया रघुवरेण समर्पणीया।
त्वद्भक्ति- भावितहृदां दुरितं द्रुतं वै
दुःखं च भो यदि विनाशयसीह लोके।
गोभूसुरामरगिरां दयितोऽसि चेत् त्वं
नून तदा तु विपदं हर चिन्तितोऽद्य।
बाल्येऽपि तातवचसा निकषा मुनीशान्
गत्वा रणेऽप्यवधि येन च ताटिकाऽऽख्या।
निर्भर्त्सिताश्च जगतीतलदुष्टसङ्घाः
श्रीर्वेदवाक्प्रियतमोऽवतु वेदवाचम्।
गंगा मंगल स्तोत्र
मङ्गलं पुण्यगङ्गे ते सहस्रश्लोकसंस्फुरे। सहस्रायुतसत�....
Click here to know more..गणेश अष्टोत्तर शतनामावली
ॐ गणेश्वराय नमः ॐ गणक्रीडाय नमः ॐ महागणपतये नमः ॐ विश्वक�....
Click here to know more..श्री सूक्त अर्थ सहित
श्री सूक्त से लक्ष्मी जी की कृपा और धन-धान्य समृद्धि प्रा�....
Click here to know more..