विष्णु कवच

29.6K

Comments

pGhn7

विष्णुर्मामग्रतः पातु कृष्णो रक्षतु पृष्ठतः । हरिर्मे रक्षतु शिरो हृदयं च जनार्दनः ॥ मनो मम हृषीकेशो जिह्वां रक्षतु केशवः । पातु नेत्रे वासुदेवः श्रोत्रे सङ्कर्षणो विभुः ॥ प्रद्युम्नः पातु मे घ्राणमनिरुद्धस्तु ....

विष्णुर्मामग्रतः पातु कृष्णो रक्षतु पृष्ठतः ।
हरिर्मे रक्षतु शिरो हृदयं च जनार्दनः ॥
मनो मम हृषीकेशो जिह्वां रक्षतु केशवः ।
पातु नेत्रे वासुदेवः श्रोत्रे सङ्कर्षणो विभुः ॥
प्रद्युम्नः पातु मे घ्राणमनिरुद्धस्तु चर्म च ।
वनमाला गलस्यान्तं श्रीवत्सो रक्षतादधः ॥
पार्श्वं रक्षतु मे चक्रं वामं दैत्यनिवारणम् ।
दक्षिणं तु गदा देवी सर्वासुरनिवारिणी ॥
उदरं मुसलं पातु पृष्ठं मे पातु लाङ्गलम् ।
ऊर्ध्वं रक्षतु मे शार्ङ्गं जङ्घे रक्षतु नन्दकः ॥
पार्णी रक्षतु शङ्खश्च पद्मं मे चरणावुभौ ।
सर्वकार्यार्थसिद्ध्यर्थं पातु मां गरुडः सदा ॥
वराहो रक्षतु जले विषमेषु च वामनः ।
अटव्यां नरसिंहश्च सर्वतः पातु केशवः ॥
हिरण्यगर्भो भगवान् हिरण्यं मे प्रयच्छतु ।
सांख्याचार्यस्तु कपिलो धातुसाम्यं करोतु मे ॥
श्वेतद्वीपनिवासी च श्वेतद्वीपं नयत्वजः ।
सर्वान् सूदयतां शत्रून् मधुकैटभमर्दनः ॥
सदाकर्षतु विष्णुश्च किल्बिषं मम विग्रहात् ।
हंसो मत्स्यस्तथा कूर्म: पातु मां सर्वतो दिशम् ॥
त्रिविक्रमस्तु मे देवः सर्वपापानि कृन्ततु ।
तथा नारायणो देवो बुद्धिं पालयतां मम ॥
शेषो मे निर्मलं ज्ञानं करोत्वज्ञाननाशनम् ।
वडवामुखो नाशयतां कल्मषं यत्कृतं मया ॥
पद्भ्यां ददातु परमं सुखं मूर्ध्नि मम प्रभुः ।
दत्तात्रेयः प्रकुरुतां सपुत्रपशुबान्धवम्॥
सर्वानरीन् नाशयतु रामः परशुना मम ।
रक्षोघ्नस्तु दाशरथिः पातु नित्यं महाभुजः ॥
शत्रून् हलेन मे हन्याद्रामो यादवनन्दनः ।
प्रलम्बकेशिचाणूरपूतनाकंसनाशनः ।
कृष्णस्य यो बालभावः स मे कामान् प्रयच्छतु ॥
अन्धकारतमोघोरं पुरुषं कृष्णपिङ्गलम्।
पश्यामि भयसंत्रस्तः पाशहस्तमिवान्तकम् ॥
ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः ।
धन्योऽहं निर्भयो नित्यं यस्य मे भगवान् हरिः ॥
ध्यात्वा नारायणं देवं सर्वोपद्रवनाशनम् ।
वैष्णवं कवचं बद्ध्वा विचरामि महीतले ॥
अप्रधृष्योऽस्मि भूतानां सर्वदेवमयो ह्यहम् ।
स्मरणाद्देवदेवस्य विष्णोरमिततेजसः ॥

Add to Favorites

Other languages: English

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |