अर्ककोटि-
प्रतापान्वितामम्बिकाम्
आदिमध्यावसानेषु सङ्कीर्तिताम्।
इष्टसिद्धिप्रदा-
मिन्दुपूर्णाननां
सारदां सर्वदाऽहं भजे शारदाम्।
वर्णमातृस्वरूपां विकारादृतां
वामनेत्रां वसिष्ठादिसंवनदिताम्।
पूतचित्तां परां भूतभूतिप्रदां
सारदां सर्वदाऽहं भजे शारदाम्।
पापसम्मर्दिनीं पुण्यसंवर्द्धिनीं
दातृधातृप्रकामां विधात्रीं वराम्।
चित्रवर्णां विशालां विदोषापहां
सारदां सर्वदाऽहं भजे शारदाम्।
चम्पकाशोक-
पुन्नागमन्दारकैः
अर्कमल्ली-
सुमैर्मालतीशाल्मलैः।
पूजितां पद्मजां पार्थिवप्रेरकां
सारदां सर्वदाऽहं भजे शारदाम्।
मौक्तिकैरिन्द्रनीलैः सुगारुत्मतैः
युक्तमुख्याङ्गभूषां यशोवर्धिनीम्।
सत्यतत्त्वप्रियां शान्तचित्तां सुरां
सारदां सर्वदाऽहं भजे शारदाम्।
स्वर्णनीहाररूप्याग्र-
वज्रप्रभैः
सर्वहारैः कलापैर्गले मण्डिताम्।
सिद्धिबुद्धिप्रदा-
मृद्धियुक्त्यावहां
सारदां सर्वदाऽहं भजे शारदाम्।
सिन्धुकावेरिका-
नर्मदासज्जलैः
सिक्तपादौ सुतप्ते भुवि स्थापिताम्।
चर्विताशेषगर्वां शरण्याग्रगां
सारदां सर्वदाऽहं भजे शारदाम्।
शूरमुख्यैः सदा सेवितां सत्तमां
देशिकां यन्त्रमुख्यावृतां देविकाम्।
सर्वमाङ्गल्ययुक्तेश्वरीं शैलजां
सारदां सर्वदाऽहं भजे शारदाम्।
शारदां सर्वदा यो भजेद् भक्तिमान्
सुप्रसन्ना सदा सारदा तस्य वै।
यच्छति स्वं बलं राज्यमिष्टं सुखं
मानवृद्धिं मुदा ह्यायुषं पूर्णकम्।
साधना पंचक
वेदो नित्यमधीयतां तदुदितं कर्मस्वनुष्ठीयतां तेनेशस्य ....
Click here to know more..सोम स्तोत्र
श्वेताम्बरोज्ज्वलतनुं सितमाल्यगन्धं श्वेताश्वयुक्तर....
Click here to know more..लड़के की सुरक्षा का मंत्र
ॐ ह्रीं ह्रीम्। कूष्माण्डि रागिणि रक्ष। भगवति चामुण्डे ....
Click here to know more..