महालक्ष्मीमहं भजे ।
देवदैत्यनुतविभवां वरदां महालक्ष्मीमहं भजे ।
सर्वरत्नधनवसुदां सुखदां महालक्ष्मीमहं भजे ।
सर्वसिद्धगणविजयां जयदां महालक्ष्मीमहं भजे ।
सर्वदुष्टजनदमनीं नयदां महालक्ष्मीमहं भजे ।
सर्वपापहरवरदां सुभगां महालक्ष्मीमहं भजे ।
आदिमध्यान्तरहितां विरलां महालक्ष्मीमहं भजे ।
महालक्ष्मीमहं भजे ।
काव्यकीर्तिगुणकलितां कमलां महालक्ष्मीमहं भजे ।
दिव्यनागवरवरणां विमलां महालक्ष्मीमहं भजे ।
सौम्यलोकमतिसुचरां सरलां महालक्ष्मीमहं भजे ।
सिद्धिबुद्धिसमफलदां सकलां महालक्ष्मीमहं भजे ।
सूर्यदीप्तिसमसुषमां सुरमां महालक्ष्मीमहं भजे ।
सर्वदेशगतशरणां शिवदां महालक्ष्मीमहं भजे ।
महालक्ष्मीमहं भजे ।
सिद्धि लक्ष्मी स्तोत्र
याः श्रीः पद्मवने कदम्बशिखरे भूपालये कुञ्जरे श्वेते चा....
Click here to know more..किं ज्योतिस्तव एक श्लोकी
किं ज्योतिस्तवभानुमानहनि मे रात्रौ प्रदीपादिकं स्यादे....
Click here to know more..पढ़ाई में सफलता के लिए गुरु गायत्री मंत्र
ॐ सुराचार्याय विद्महे सुरश्रेष्ठाय धीमहि| तन्नो गुरुः प....
Click here to know more..