कपिश्रेष्ठाय शूराय सुग्रीवप्रियमन्त्रिणे ।
जानकीशोकनाशाय आञ्जनेयाय मङ्गलम् ।।
मनोवेगाय उग्राय कालनेमिविदारिणे ।
लक्ष्मणप्राणदात्रे च आञ्जनेयाय मङ्गलम् ।।
महाबलाय शान्ताय दुर्दण्डीबन्धमोचन ।
मैरावणविनाशाय आञ्जनेयाय मङ्गलम् ।।
पर्वतायुधहस्ताय रक्षःकुलविनाशिने ।
श्रीरामपादभक्ताय आञ्जनेयाय मङ्गलम् ।।
विरक्ताय सुशीलाय रुद्रमूर्तिस्वरूपिणे ।
ऋषिभिः सेवितायास्तु आञ्जनेयाय मङ्गलम् ।।
दीर्घबालाय कालाय लङ्कापुरविदारिणे ।
लङ्कीणीदर्पनाशाय आञ्जनेयाय मङ्गलम् ।।
नमस्तेऽस्तु ब्रह्मचारिन् नमस्ते वायुनन्दन ।
नमस्ते गानलोलाय आञ्जनेयाय मङ्गलम् ।।
प्रभवाय सुरेशाय शुभदाय शुभात्मने ।
वायुपुत्राय धीराय आञ्जनेयाय मङ्गलम् ।।
आञ्जनेयाष्टकमिदं यः पठेत् सततं नरः ।
सिद्ध्यन्ति सर्वकार्याणि सर्वशत्रुविनाशनम् ।।