ॐ अस्य श्रीजगन्मङ्गलकवचस्य।
प्रजापतिर्ऋषिः। गायत्री छन्दः। स्वयं रासेश्वरी देवता।
श्रीकृष्णभक्तिसंप्राप्तौ विनियोगः।
ओं राधेति चतुर्थ्यन्तं वह्निजायान्तमेव च।
कृष्णेनोपासितो मन्त्रः कल्पवृक्षः शिरोऽवतु।
ओं ह्रीं श्रीं राधिकाङेन्तं वह्निजायान्तमेव च।
कपालं नेत्रयुग्मं च श्रोत्रयुग्मं सदाऽवतु।
ओं रां ह्रीं श्रीं राधिकेति ङेन्तं स्वाहान्तमेव च।
मस्तकं केशसङ्घांश्च मन्त्रराजः सदाऽवतु।
ओं रां राधेति चतुर्थ्यन्तं वह्निजायान्तमेव च।
सर्वसिद्धिप्रदः पातु कपोलं नासिकां मुखम्।
क्लीं श्रीं कृष्णप्रियाङेन्तं कण्ठं पातु नमोऽन्तकम्।
ओं रां रासेश्वरी ङेन्तं स्कन्धं पातु नमोऽन्तकम्।
ओं रां रासविलासिन्यै स्वाहा पृष्ठं सदाऽवतु।
वृन्दावनविलासिन्यै स्वाहा वक्षः सदाऽवतु।
तुलसीवनवासिन्यै स्वाहा पातु नितम्बकम्।
कृष्णप्राणाधिकाङेन्तं स्वाहान्तं प्रणवादिकम्।
पादयुग्मं च सर्वाङ्गं सन्ततं पातु सर्वतः।
राधा रक्षतु प्राच्यां च वह्नौ कृष्णप्रियाऽवतु।
दक्षे रासेश्वरी पातु गोपीशा नैर्ऋतेऽवतु।
पश्चिमे निर्गुणा पातु वायव्ये कृष्णपूजिता।
उत्तरे सन्ततं पातु मूलप्रकृतिरीश्वरी।
सर्वेश्वरी सदैशान्यां पातु मां सर्वपूजिता।
जले स्थले चान्तरिक्षे स्वप्ने जागरणे तथा।
महाविष्णोश्च जननी सर्वतः पातु सन्ततम्।
कवचं कथितं दुर्गे श्रीजगन्मङ्गलं परम्।
यस्मै कस्मै न दातव्यं गूढाद्गूढतरं परम्।
तव स्नेहान्मयाख्यातं प्रवक्तव्यं न कस्यचित्।
गुरुमभ्यर्च्य विधिवद् वस्त्रालङ्कारचन्दनैः।
कण्ठे वा दक्षिणे बाहौ धृत्वा विष्णुसमो भवेत्।
शतलक्षजपेनैव सिद्धं च कवचं भवेत्।
यदि स्यात् सिद्धकवचो न दग्धो वह्निना भवेत्।
एतस्मात् कवचाद् दुर्गे राजा दुर्योधनः पुरा।
विशारदो जलस्तम्भे वह्निस्तम्भे च निश्चितम्।
मया सनत्कुमाराय पुरा दत्तं च पुष्करे।
सूर्यपर्वणि मेरौ च स सान्दीपनये ददौ।
बलाय तेन दत्तं च ददौ दुर्योधनाय सः।
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः।