विश्वेशमादित्यसमप्रकाशं
पृषत्कचापे करयोर्दधानम्।
सदा हि साकेतपुरप्रदीप-
मानन्दवर्धं प्रणमामि रामम्।
नानागुणैर्भूषितमादिदेवं
दिव्यस्वरूपं विमलं मनोज्ञम्।
आपत्सु रक्षाकरमीशचाप-
भङ्गं सुसङ्गं प्रणमामि रामम्।
सीतापतिं सर्वनतं विनीतं
सर्वस्वदातारमनन्तकीर्तिम्।
सिद्धैः सुयुक्तं सुरसिद्धिदान-
कर्तारमीशं प्रणमामि रामम्।
शुभप्रदं दाशरथं स्वयंभुं
दशास्यहन्तारमुरं सुरेड्यम्।
कटाक्षदृष्ट्या करुणार्द्रवृष्टि-
प्रवर्षणं तं प्रणमामि रामम्।
मुदाकरं मोदविधानहेतुं
दुःस्वप्नदाहीकरधूमकेतुम्।
विश्वप्रियं विश्वविधूतवन्द्य-
पदाम्बुजं तं प्रणमामि रामम्।
रामस्य पाठं सततं स्तुतेर्यः
करोति भूतिं करुणां सुरम्याम्।
प्राप्नोति सिद्धिं विमलां च कीर्ति-
मायुर्धनं वंशबले गुणं च।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other languages: EnglishTamilMalayalamTeluguKannada

Recommended for you

बृहस्पति कवच

बृहस्पति कवच

अस्य श्रीबृहस्पतिकवचस्तोत्रमन्त्रस्य। ईश्वर ऋषिः। अन�....

Click here to know more..

रङ्गनाथ अष्टक स्तोत्र

रङ्गनाथ अष्टक स्तोत्र

आनन्दरूपे निजबोधरूपे ब्रह्मस्वरूपे श्रुतिमूर्तिरूपे �....

Click here to know more..

नमस्कार के प्रकार

नमस्कार के प्रकार

Click here to know more..