कपालिनामधेयकं कलापिपुर्यधीश्वरं
कलाधरार्धशेखरं करीन्द्रचर्मभूषितम् ।
कृपारसार्द्रलोचनं कुलाचलप्रपूजितं
कुबेरमित्रमूर्जितं गणेशपूजितं भजे ॥
भजे भुजङ्गभूषणं भवाब्धिभीतिभञ्जनं
भवोद्भवं भयापहं सुखप्रदं सुरेश्वरम् ।
रवीन्दुवह्निलोचनं रमाधवार्चितं वरं
ह्युमाधवं सुमाधवीसुभूषितं महागुरुम् ॥
गुरुं गिरीन्द्रधन्विनं गुहप्रियं गुहाशयं
गिरिप्रियं नगप्रियासमन्वितं वरप्रदम् ।
सुरप्रियं रविप्रभं सुरेन्द्रपूजितं प्रभुं
नरेन्द्रपीठदायकं नमाम्यहं महेश्वरम् ॥
महेश्वरं सुरेश्वरं धनेश्वरप्रियेश्वरं
वनेश्वरं विशुद्धचित्तवासिनं परात्परम् ।
प्रमत्तवेषधारिणं प्रकृष्टचित्स्वरूपिणं
विरुद्धकर्मकारिणं सुशिक्षकं स्मराम्यहम् ॥
स्मराम्यहं स्मरान्तकं मुरारिसेविताङ्घ्रिकं
परारिनाशनक्षमं पुरारिरूपिणं शुभम् ।
स्फुरत्सहस्रभानुतुल्यतेजसं महौजसं
सुचण्डिकेशपूजितं मृडं समाश्रये सदा ॥
सदा प्रहृष्टरूपिणं सतां प्रहर्षवर्षिणं
भिदा विनाशकारण प्रमाणगोचरं परम् ।
मुदा प्रवृत्तनर्तनं जगत्पवित्रकीर्तनं
निदानमेकमद्भुतं नितान्तमाश्रयेह्यहम् ॥
अहम्ममादिदूषणं महेन्द्ररत्नभूषणं
महावृषेन्द्रवाहनं ह्यहीन्द्रभूषणान्वितम् ।
वृषाकपिस्वरूपिणं मृषापदार्थधारिणं
मृकण्डुसूनुसंस्तुतं ह्यभीतिदं नमामि तम् ॥
नमामि तं महामतिं नतेष्टदानचक्षणं
नतार्तिभञ्जनोद्यतं नगेन्द्रवासिनं विभुम् ।
अगेन्द्रजासमन्वितं मृगेन्द्रविक्रमान्वितं
खगेन्द्रवाहनप्रियं सुखस्वरूपमव्ययम् ॥
सुकल्पकाम्बिकापतिप्रियं त्विदं मनोहरं
सुगूडकाञ्चिरामकृष्णयोगिशिष्यसंस्तुतम् ।
महाप्रदोषपुण्यकालकीर्तनात् शुभप्रदं
भजामहे सदा मुदा कपालिमङ्गलाष्टकम् ॥
कपालि तुष्टिदायकं महापदिप्रपालकं
त्वभीष्टसिद्धिदायकं विशिष्टमङ्गलाष्टकम् ।
पठेत्सकृत्सुभक्तितः कपालिसन्निधौ क्रमात्
अवाप्य सर्वमायुरादि मोदते सुमङ्गलम् ॥
भगवद् गीता अष्टोत्तर शत नामावलि
ॐ श्रीमद्भगवद्गीतायै नमः । ॐ श्रीकृष्णामृतवाण्यै नमः । �....
Click here to know more..स्वरमंगला सरस्वती स्तोत्र
विराजते विनोदिनी पवित्रतां वितन्वती । सुमङ्गलं ददातु न�....
Click here to know more..कश्यप परीक्षित को बचाने जाते हैं