वृन्दावने कल्पतरोः सुमूले
गोगोपिकावृन्दवृतं सुरेशम् ।
वंशीकरं लोकवशीकरं च
राधाधवं तं प्रणमामि कृष्णम् ।
यस्यैव बिम्बं परिदृश्यतेऽथ
राधा यदा पश्यति शुद्धतोये ।
राधार्द्धभागं महनीयरूपं
राधाधवं तं प्रणमामि कृष्णम् ।
सुहोलिकापर्वणि दिव्यवर्ण-
विलेपनायाऽपि निसृष्टपाणिम् ।
राधाकपोले ससुखं सहार्दं
राधाधवं तं प्रणमामि कृष्णम् ।
राधास्तनन्यस्तसुचन्दनेन
विलिप्तवक्षस्थलमेकभावम् ।
राधाकरस्थापितदक्षहस्तं
राधाधवं तं प्रणमामि कृष्णम् ।
सत्प्रेमभावाश्रयरूपमेकं
शिखीन्द्रपिञ्छाशिखमादिभूतम् ।
सुपुष्पमालं समभावमूलं
राधाधवं तं प्रणमामि कृष्णम् ।
कृष्णापवित्रीकृतशुद्धभूमौ
श्रीराधिकानर्तननेत्रतृष्णम् ।
तत्पादवच्चञ्चलनेत्रमीशं
राधाधवं तं प्रणमामि कृष्णम् ।
स्वकण्ठदेशस्थितहेममाला-
मारोपयन् तुष्यति राधिकायाः ।
कण्ठे विशालां सुमगन्धयुक्तां
राधाधवं तं प्रणमामि कृष्णम् ।
घटे जलस्यानयनाय राधा
नदीं यदा गच्छति यस्तदानीम् ।
प्रेम्णा कटिन्यस्तकराग्रभागो
राधाधवं तं प्रणमामि कृष्णम् ।
सुवेणुवाद्यं करयोर्गृहीत्वा
यः प्रेमगीतं मधुरं सराधम् ।
प्रवादयत्याश्रितभक्ततुष्ट्यै
राधाधवं तं प्रणमामि कृष्णम् ।
रात्रौ भृशं शारदपूर्णिमायां
स्वाङ्के शयानां वृषभानुजाताम् ।
स्पृशन्तमेकेन करेण मूर्ध्नि
राधाधवं तं प्रणमामि कृष्णम् ।
चामुण्डेश्वरी मंगल स्तोत्र
श्रीशैलराजतनये चण्डमुण्डनिषूदिनि। मृगेन्द्रवाहने तुभ....
Click here to know more..गणेश आरती
जय गणेश जय गणेश जय गणेश देवा। माता जाकी पार्वती पिता महाद�....
Click here to know more..किस भगवान की पूजा करें ?
किस भगवान की पूजा करें ? - इसका स्पष्ट उत्तर देता है श्रीमद....
Click here to know more..