शारदां चन्द्रवदनां वीणापुस्तकधारिणीम् ।
सङ्गीतविद्याधिष्ठात्रीं नमस्यामि सरस्वतीम् ॥
श्वेताम्बरधरे देवि श्वेतपद्मासने शुभे।
श्वेतगन्धार्चिताङ्घ्रिं त्वां नमस्यामि सरस्वतीम् ॥
या देवी सर्ववाद्येषु दक्षा सङ्गीतवर्तिनी ।
या सदा ज्ञानदा देवी नमस्यामि सरस्वति ॥
शारदे सर्ववाद्येषु दक्षं मां कुरु पाहि माम् ।
सिद्धिं देहि सदा देवि जिह्वायां तिष्ठ मे स्वयम् ॥
ज्ञानं देहि स्वरस्यापि लयतालगुणं मम ।
भक्तिं च यच्छ मे नित्यं सरस्वति नमोऽस्तु ते ॥
विद्यां बुद्धिं च मे देवि प्रयच्छाऽद्य सरस्वति ।
यशो मे शाश्वतं देहि वरदा भव मे सदा ॥
प्रणमामि जगद्धात्रीं वागीशानीं सरस्वतीम् ।
सङ्गीते देहि सिद्धिं मे गीते वाद्ये महामति ॥
सरस्वत्या इदं स्तोत्रं यः पठेद्भक्तिमान् नरः ।
सङ्गीतस्वरतालेषु समवाप्नोत्यभिज्ञताम् ॥
यमुना अमृत लहरी स्तोत्र
मातः पातकपातकारिणि तव प्रातः प्रयातस्तटं यः कालिन्दि म�....
Click here to know more..हयग्रीव अष्टोत्तर शतनामावलि
ॐ हयग्रीवाय नमः। ॐ महाविष्णवे नमः। ॐ केशवाय नमः। ॐ मधुसू�....
Click here to know more..पूर्ण ज्ञान से पूर्ण भक्ति की ओर