शरच्चन्द्रवक्त्रां लसत्पद्महस्तां सरोजाभनेत्रां स्फुरद्रत्नमौलिम् ।
घनाकारवेणीं निराकारवृत्तिं भजे शारदां वासरापीठवासाम् ॥
धराभारपोषां सुरानीकवन्द्यां मृणालीलसद्बाहुकेयूरयुक्ताम् ।
त्रिलोकैकसाक्षीमुदारस्तनाढ्यां भजे शारदां वासरापीठवासाम् ॥
दुरासारसंसारतीर्थाङ्घ्रिपोतां क्वणत्स्वर्णमाणिक्यहाराभिरामाम् ।
शरच्चन्द्रिकाधौतवासोलसन्तीं भजे शारदां वासरापीठवासाम् ॥
विरिञ्चीन्द्रविष्ण्वादियोगीन्द्र पूज्यां प्रसन्नां विपन्नार्तिनाशां शरण्याम् ।
त्रिलोकाधिनाथाधिनाथां त्रिशून्यां भजे शारदां वासरापीठवासाम् ॥
अनन्तामगम्यामनाद्यामभाव्यामभेद्यामदाह्यामलेप्यामरूपाम् ।
अशोष्यामसङ्गामदेहामवाच्यां भजे शारदां वासरापीठवासाम् ॥
मनोवागतीतामनाम्नीमखण्डामभिन्नात्मिकामद्वयां स्वप्रकाशाम् ।
चिदानन्दकन्दां परञ्ज्योतिरूपां भजे शारदां वासरापीठवासाम् ॥
सदानन्दरूपां शुभायोगरूपामशेषात्मिकां निर्गुणां निर्विकाराम् ।
महावाक्यवेद्यां विचारप्रसङ्गां भजे शारदां वासरापीठवासाम् ॥
नमो नमो भारताम्बे
नमो नमो भारताम्बे सारस्वतशरीरिणि । नमोऽस्तु जगतां वन्द�....
Click here to know more..गोकुलेश अष्टक स्तोत्र
प्राणाधिकप्रेष्ठभवज्जनानां त्वद्विप्रयोगानलतापितान�....
Click here to know more..रेवती नक्षत्र
रेवती नक्षत्र - व्यक्तित्व और विशेषताएं, स्वास्थ्य, व्यव�....
Click here to know more..