श्रीबृहदम्बाधिपते ब्रह्मपुरोगाः सुराः स्तुवन्ति त्वाम् ।
व्युष्टा रजनी शयनादुत्थायैषामनुग्रहः क्रियताम् ॥
गोकर्णनाथ गौर्या सहसुतयारुह्य पादुके हैमे ।
मौक्तिकमण्टपमेहि स्नातुमवष्टभ्य मामकं हस्तम् ॥
तैलैः सप्तमहार्णवीपरिमितैस्तावद्भिरुष्णोदकै -
राज्यक्षीरदधीक्षुचूतरससत्क्षौद्रैस्तथान्यैरपि ।
स्नानार्हैरभिषेचयामि चतुरो वेदान् पठन् भक्तितः
स्वामिन् श्रीबृहदम्बिकेश कृपया तत् सर्वमङ्गीकुरु ॥
अण्डभित्तिपरिवेष्टनयोग्यान् हंसचित्रितदशानुपवीतैः ।
अर्पयामि भवते बृहदम्बाधीश धत्स्व नवपीतपटांस्त्वम् ॥
भस्मोद्धूलनपूर्वकं शिव भवद्देहं त्रिपुण्ड्रैरलं-
कृत्यादावनु चन्दनैर्मलयजैः कर्पूरसंवासितैः ।
सर्वाङ्गं तव भूषयामि तिलकेनालीकमप्यादरात्
पश्यात्मानमनेकमन्मथसमच्छायं स्वमादर्शगम् ॥
यावन्तस्त्रिजगत्सु रत्ननिकरा यावद्धिरण्यं च तै-
स्तेनापीश तवाङ्गकेषु रचयाम्यापादकेशं हृदा ।
योग्यं भूषणजातमद्य बृहदम्बेश त्वयाथाम्बिका-
पुत्रेण प्रतिगृह्यतां मयि कृपादृष्टिश्च विस्तार्यताम् ॥
नन्दनचैत्ररथादिषु देवोद्यानेषु यानि पुष्पाणि ।
तैर्भूषयामि नागाभरण बृहन्नायिकेश ते गात्रम् ॥
कोटिकोटिगुणितैः शिव बिल्वैः कोमलैर्वकुलवृक्षवनेश ।
स्वर्णपुष्पसहितैः श्रुतिभिस्त्वां पूजयामि पदयोः प्रतिमन्त्रम् ॥
गुग्गुळुभारसहस्रैर्बाडववह्नौ प्रधूपितो धूपः ।
चकुलवनेश स्वामिन्नगरुसमेतस्तवास्तु मोदाय ॥
बिसतन्तुवर्तिविहिताः सगोघृताः शतकोटिकोटिगणनोपरि स्थिताः
प्रभयाधरीकृतरवीन्दुपावका वकुलाटवीश तव सन्तु दीपिकाः ॥
शाल्यन्नं कनकाभसूपसहितं सद्योघृतैरन्वितं
सोष्णं हाटकभाजनस्थमचलस्पर्धालु सव्यञ्जनम् ।
गोकर्णेश्वर गृह्यतां करुणया सच्छर्करान्नं तथा
मुद्गान्नं कृसरान्नमप्यतिसुधं पानीयमप्यन्तरा ॥
कृसरमनोहरलड्डुकमोदकशष्कुल्यपूपवटकादीन् ।
सप्तसमुद्रमितान् श्रीवकुलवनाधीश भुङ्क्ष्व भक्ष्यांस्त्वम् ॥
क्षोणीसंस्थैः समस्तैः पनसफलबृहन्नालिकेराम्ररम्भा-
द्राक्षाखर्जूरजम्बूबदरफललसन्मातुलङ्गैः कपित्यैः ।
नारङ्गैरिक्षुखण्डैरपि निजजठरं पूर्यतां मामकं चा-
भीष्टं गोकर्णसंज्ञस्थलनिलय महादेव सर्वज्ञ शम्भो ॥
क्षीराम्भोधिगतं पयस्तदुचिते पात्रे समर्योपरि
प्रक्षिप्यार्जुनशर्कराश्चणकगोधूमान् सहैलानपि ।
पक्कं पायससंज्ञमद्भुततमं मध्वाज्यसम्म्मिश्रितं
भक्त्याहं वितरामि तेन बृहदम्वेशातिसन्तुप्यताम् ॥
मल्लीपुष्पसमानकान्तिमृदुलानन्नाचलानम्बुधौ
दघ्नस्तद्वदमर्त्यधेनुदधिजान् हैयङ्गवीनाचलान् ।
क्षिप्त्वा श्रीबृहदम्बिकेश लवणैः किञ्चित् समेतं मया
दास्यामोऽपिचुमन्दचूर्णसहितं दध्योदनं भुज्यताम् ॥
अर्घ्यां चाचमनीयं पानीयं क्षालनीयमप्यम्बु ।
स्वामिन् वकुलवनेश स्वःसरिदद्भिः सुधाभिरपि दद्याम् ॥
हर्म्ये रत्नपरिष्कृते मरतकस्तम्भायुतालङ्कृते
दीप्यद्धेमघटैरलङ्कृतशिरस्यालम्बिमुक्तासरे ।
दिव्यैरास्तरणैर्विभूषितमहामञ्चेऽभितो वासिते
साकं श्रीबृहृदम्बया सकुतुकं संविश्य विश्रम्यताम् ॥
पञ्चाक्षरेण मनुना पञ्चमहापापभञ्जनप्रभुणा ।
पञ्चपरार्ध्यैर्बिल्वैर्दक्षिणगोकर्णनायकार्चामि ॥
एलाक्रमुककर्पूरजातिकाजातिपत्रिभिः ।
ताम्बूलं चूर्णसंयुक्तं गोकर्णेश्वर गृह्यताम् ॥
बृहदम्बापते हेमपात्रयित्वा महीतलम् ।
कर्पूरयित्वा हेमाद्रिं तव नीराजयाम्यहम् ॥
छत्रं ते शशिमण्डलेन रचयाम्याकाशगङ्गाझरैः
श्वेतं चामरमष्टदिक्करिघटाकर्णानिलैर्बीजनम् ।
आदर्शं रविमण्डलेन जलदारावेण भेरीरवं
गन्धर्वाप्सरसां गणैर्वकुलभूवासेश तौर्यत्रिकम् ॥
कल्याणाचलवर्चसो रथवरान् कार्तस्वरालङ्कृतान्
कैलासाद्रिनिभानिभानतिमरुद्वेगांस्तुरङ्गानपि ।
कामाभीप्सितरूपपौरुषजुषः सङ्ख्याविहीनान् भटा-
नालोक्याम्बिकयोररीकुरु बृहन्मातुः प्रियेशादरात् ॥
काश्मीरचोलदेशानपि निजविभवैर्विनिन्दतः शश्वत् ।
सन्ततफलदान् देशान् श्रीबृहदम्बेश चित्तजान् प्रददे ॥
स्वर्गं भर्त्सयतो निमीलितदृशः सत्यं ह्रियालोकितुं
वैकुण्ठं हसतः कचाकचिजुषः कैलासधाम्ना तव ।
अत्याश्चर्ययुतान् गृहानभिमतानुत्पाद्य बुद्धया स्वया
भक्त्याहं वितरामि देव वकुलारण्याश्रयाङ्गीकुरु ॥
विश्वस्यान्तर्बहिरपि विभो वर्तसे तेन ते स्तः
तत् त्वां नन्तुं क्रमितुमभितोऽसम्भवान्नास्मि शक्तः ।
भक्ताधीनस्त्वमसि बकुलाटव्यधीशोपचारान्
सर्वान् कुर्वे प्रणमनमुखानाशयेनानिशं ते ॥
श्रीमन्मङ्गलतीर्थपश्चिमतटप्रासादभद्रासना-
जस्रावासकृतान्तरङ्गमहनीयाङ्गेन्दुगङ्गाधर ।
स्तोत्रं ते कलयामि शश्वदखिलाम्नायैः सहाङ्गैः पुनः
सर्वैश्चोपनिषत्पुराणकवितागुम्भैर्भवच्छंसिभिः ॥
सकलत्रपुत्रपौत्रं सहपरिवारं सहोपकरणं च ।
आत्मानमर्पयामि श्रीबृहदम्बेश पाहि मां कृपया ॥
कायकृतं वचनकृतं हृदयकृतं चापि मामकं मन्तुम् ।
परिहृत्य मामजस्रं त्वयि कृतभारं महेश परिपाहि ॥
सुब्रह्मण्य अष्टक स्तोत्र
हे स्वामिनाथ करुणाकर दीनबन्धो श्रीपार्वतीशमुखपङ्कजपद�....
Click here to know more..धैर्य लक्ष्मी अष्टोत्तर शत नामावलि
ॐ श्रीं ह्रीं क्लीम्। धैर्यलक्ष्म्यै नमः । अपूर्वायै नम�....
Click here to know more..विशाखा नक्षत्र
विशाखा नक्षत्र - व्यक्तित्व और विशेषताएं, स्वास्थ्य, व्य�....
Click here to know more..