ब्रह्मोवाच । अथ वृत्ते विवाहे तु भवस्यामिततेजसः ।
प्रहर्षमतुलं गत्वा देवाः शक्रपुरोगमाः ।
तुष्टुवुर्वाग्भिराद्याभिः प्रणेमुस्ते महेश्वरम् ॥
देवा ऊचुः । नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः ।
नमः पवनवेगाय विरूपायाजिताय च ।
नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम् ॥
नमो नीलशिखण्डाय अम्बिकापतये नमः ।
नमः पवनरूपाय शतरूपाय वै नमः ॥
नमो भैरवरूपाय विरूपनयनाय च ।
नमः सहस्रनेत्राय सहस्रचरणाय च ॥
नमो देववयस्याय वेदाङ्गाय नमो नमः ।
विष्टम्भनाय शक्रस्य बाह्वोर्वेदाङ्कुराय च ॥
चराचराधिपतये शमनाय नमो नमः ।
सलिलाशयलिङ्गाय युगान्ताय नमो नमः ॥
नमः कपालमालाय कपालसूत्रधारिणे ।
नमः कपालहस्ताय दण्डिने गदिने नमः ॥
नमस्त्रैलोक्यनाथाय पशुलोकरताय च ।
नमः खट्वाङ्गहस्ताय प्रमथार्तिहराय च ॥
नमो यज्ञशिरोहन्त्रे कृष्णकेशापहारिणे ।
भगनेत्रनिपाताय पूष्णो दन्तहराय च ॥
नमः पिनाकशूलासिखड्गमुद्गरधारिणे ।
नमोऽस्तु कालकालाय तृतीयनयनाय च ॥
अन्तकान्तकृते चैव नमः पर्वतवासिने ।
सुवर्णरेतसे चैव नमः कुण्डलधारिणे ॥
दैत्यानां योगनाशाय योगिनां गुरवे नमः ।
शशाङ्कादित्यनेत्राय ललाटनयनाय च ॥
नमः श्मशानरतये श्मशानवरदाय च ।
नमो दैवतनाथाय त्र्यम्बकाय नमो नमः ॥
गृहस्थसाधवे नित्यं जटिले ब्रह्मचारिणे ।
नमो मुण्डार्धमुण्डाय पशूनां पतये नमः ॥
सलिले तप्यमानाय योगैश्वर्यप्रदाय च ।
नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे ॥
नमोऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः ।
नमो रुद्राय वसव आदित्यायाश्विने नमः ॥
नमः पित्रेऽथ सांख्याय विश्वेदेवाय वै नमः ।
नमः शर्वाय उग्राय शिवाय वरदाय च ॥
नमो भीमाय सेनान्ये पशूनां पतये नमः ।
शुचये वैरिहानाय सद्योजाताय वै नमः ॥
महादेवाय चित्राय विचित्राय च वै नमः ।
प्रधानायाप्रमेयाय कार्याय कारणाय च ॥
पुरुषाय नमस्तेऽस्तु पुरुषेच्छाकराय च ।
नमः पुरुषसंयोगप्रधानगुणकारिणे ॥
प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः ।
कृताकृतस्य सत्कर्त्रे फलसंयोगदाय च ॥
कालज्ञाय च सर्वेषां नमो नियमकारिणे ।
नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च ॥
नमस्ते देवदेवेश नमस्ते भूतभावन ।
शिव सौम्यमुखो द्रष्टुं भव सौम्यो हि नः प्रभो ॥
ब्रह्मोवाच । एवं स भगवान् देवो जगत्पतिरुमापतिः ।
स्तूयमानः सुरैः सर्वैरमरानिदमब्रवीत् ॥
श्रीशङ्कर उवाच ।
द्रष्टुं सुखश्च सौम्यश्च देवानामस्मि भोः सुराः ।
वरं वरयत क्षिप्रं दातास्मि तमसंशयम् ॥
ब्रह्मोवाच ।
ततस्ते प्रणताः सर्वे सुरा ऊचुस्त्रिलोचनम् ॥
देवा ऊचुः ।
तवैव भगवन् हस्ते वर एषोऽवतिष्ठताम् ।
यदा कार्यं तदा नस्त्वं दास्यसे वरमीप्सितम् ॥
ब्रह्मोवाच ।
एवमस्त्विति तान् उक्त्वा विसृज्य च सुरान् हरः ।
लोकांश्च प्रमथैः सार्धं विवेश भवनं स्वकम् ॥
यस्तु हरोत्सवमद्भुतमेनम् ।
गायति दैवतविप्रसमक्षम् ।
सोऽप्रतिरूपगणेशसमानो ।
देहविपर्ययमेत्य सुखी स्यात् ।
नारायण कवच
अथ श्रीनारायणकवचम्। राजोवाच। यया गुप्तः सहस्राक्षः सवा....
Click here to know more..गणेश पंचरत्न स्तोत्र
मुदा करात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलास�....
Click here to know more..कुबेर अष्टोत्तर शतनामावली
ॐ पद्मनिधीश्वराय नमः। ॐ शङ्खाख्यनिधिनाथाय नमः। ॐ मकराख�....
Click here to know more..