पार्वत्युवाच -
महादेवमहानन्दकरुणामृतसागर ।
श्रुतमुत्तममाख्यानं महाकालगणस्य च ॥
किं वान्यत् प्रीतिजनकं क्षेत्रमस्ति महेश्वर ।
क्षेत्राणां त्वं पतिः शम्भो विशिष्टं वक्तुमर्हसि ॥
ईश्वर उवाच -
क्षेत्रमस्त्येकमुत्कृष्टमुत्फुल्लकमलानने ।
ओङ्कारं नाम विमलं कलिकल्मषनाशनम् ॥
तत्र शैववरा नित्यं निवसन्ति सहस्रशः ।
ते सर्वे मम लिङ्गार्चां कुर्वन्त्येव प्रतिक्षणम् ॥
भासिताभासितैर्नित्यं शान्ता दान्ता जितेन्द्रियाः ।
रुद्राक्षवरभूषाढ्या भालाक्षान्यस्तमानसाः ॥
तत्रास्ति सरितां श्रेष्ठा लिङ्गसङ्गतरङ्गिता ।
नर्मदा शर्मदा नित्यं स्नानात्पानावगाहनात् ॥
पापौघसङ्घभङ्गाढ्या वातपोतसुशीतला ।
तत्रास्ति कुण्डमुत्कृष्टमोङ्काराख्यं शुचिस्मिते ॥
तत्कुण्डदर्शनादेव मल्लोके निवसेच्चिरम् ।
तत्कुण्डोदकपानेन हृदि लिङ्गं प्रजायते ॥
भावाः पिबन्ति तत्कुण्डजलं शीतं विमुक्तये ।
तृप्तिं प्रयान्ति पितरः तत्कुण्डजलतर्पिताः ॥
सदा तत्कुण्डरक्षार्थं गणाः संस्थापिता मया ।
कुण्डधारप्रभृतयः शूलमुद्गरपाणयः ॥
गजेन्द्रचर्मवसना मृगेन्द्रसमविक्रमाः ।
हरीन्द्रानपि ते हन्युर्गिरीन्द्रसमविग्रहाह ॥
धनुःशरकराः सर्वे जटाशोभितमस्तकाः ।
अग्निरित्यादिभिर्मन्त्रैर्भस्मोद्धूलितविग्रहा ॥
सङ्ग्राममुखराः सर्वे गणा मेदुरविग्रहाः ।
कदाचिदननुज्ञाप्त तान् गणान् मददर्पितः ॥
अप्सरोभिः परिवृतो मरुतां पतिरुद्धतः ।
आरुह्याभ्रमुनाथं तं क्रीडितुं नर्मदाजले ॥
समाजगाम त्वरितः शच्या साकं शिवे तदा ।
तदा तं गणपाः क्रुद्धाः सर्वे ते ह्यतिमन्यवः ॥
सगजं पातयन्नब्धौ शच्या साकं सुरेश्वरम् ।
सुरांस्तदा सवरुणान् बिभिदुः पवनानलान् ॥
निस्त्रिंशवरधाराभिः सुतीक्ष्णाग्रैः शिलीमुखैः ।
मुद्गरैर्बिभिदुश्चान्ये सवाहायुधभूषणान् ॥
विवाहनांस्तदा देवान् स्रवद्रक्तान् स्खलत्पदान् ।
कान्दिशीकान् मुक्तकेशान् क्षणाच्चक्रुर्गणेश्वराः ॥
अप्सरास्ता विकन्नराः रुदन्त्यो मुक्तमूर्धजाः ।
हाहा बतेति क्रन्दन्त्यः स्रवद्रक्तार्द्रवाससः ॥
तथा देवगणाः सर्वे शक्राद्या भयकम्पिताः ।
ओङ्कारं तत्र तल्लिङ्गं शरणं जग्मुरीश्वरम् ॥
वेंकटेश विभक्ति स्तोत्र
श्रीवेङ्कटाद्रिधामा भूमा भूमाप्रियः कृपासीमा। निरवधि�....
Click here to know more..गुह अष्टक स्तोत्र
शान्तं शम्भुतनूजं सत्यमनाधारं जगदाधारं ज्ञातृज्ञाननि�....
Click here to know more..५१ शक्ति पीठ लिस्ट - गूगल मैप के साथ
५१ शक्ति पीठों की पूरी सूची गूगल मैप्स के साथ....
Click here to know more..