व्यास उवाच -
अथोपतिष्ठेदादित्यमुदयन्तं समाहितः ।
मन्त्रैस्तु विविधैः सौरै ऋग्यजुःसामसम्भवैः ॥
उपस्थाय महायोगं देवदेवं दिवाकरम् ।
कुर्वीत प्रणतिं भूमौ मूर्ध्ना तेनैव मन्त्रतः ॥
ॐ खद्योताय च शान्ताय कारणत्रयहेतवे ।
निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे ॥
नमस्ते घृणिने तुभ्यं सूर्याय ब्रह्मरूपिणे ।
त्वमेव ब्रह्म परममापो ज्योती रसोऽमृतम् ।
भूर्भुवःस्वस्त्वमोङ्कारः शर्वरुद्रः सनातनः ॥
पुरुषः सन्महोऽन्तस्थं प्रणमामि कपर्दिनम् ।
त्वमेव विश्वं बहुधा जात यज्जायते च यत् ।
नमो रुद्राय सूर्याय त्वामहं शरणं गतः ॥
प्रचेतसे नमस्तुभ्यं नमो मीढुष्टमाय ते ।
नमो नमस्ते रुद्राय त्वामहं शरणं गतः ।
हिरण्यबाहवे तुभ्यं हिरण्यपतये नमः ॥
अम्बिकापतये तुभ्यमुमायाः पतये नमः ।
नमोऽस्तु नीलग्रीवाय नमस्तुभ्यं पिनाकिने ॥
विलोहिताय भर्गाय सहस्राक्षाय ते नमः ।
नमो हंसाय ते नित्यमादित्याय नमोऽस्तु ते ॥
नमस्ते वज्रहस्ताय त्र्यम्बकाय नमो नमः ।
प्रपद्ये त्वां विरूपाक्षं महान्तं परमेश्वरम् ॥
हिरण्मये गृहे गुप्तमात्मानं सर्वदेहिनाम् ।
नमस्यामि परं ज्योतिर्ब्रह्माणं त्वां परां गतिम् ॥
विश्वं पशुपतिं भीमं नरनारीशरीरिणम् ।
नमः सूर्याय रुद्राय भास्वते परमेष्ठिने ॥
उग्राय सर्वभक्षाय त्वां प्रपद्ये सदैव हि ।
एतद्वै सूर्यहृदयं जप्त्वा स्तवमनुत्तमम् ॥
प्रातः कालेऽथ मध्याह्ने नमस्कुर्याद्दिवाकरम् ।
इदं पुत्राय शिष्याय धार्मिकाय द्विजातये ॥
प्रदेयं सूर्यहृदयं ब्रह्मणा तु प्रदर्शितम् ।
सर्वपापप्रशमनं वेदसारसमुद्भवम् ।
ब्राह्मणानां हितं पुण्यमृषिसङ्घैर्निषेवितम् ॥
अथागम्य गृहं विप्रः समाचम्य यथाविधि ।
प्रज्वाल्य विह्निं विधिवज्जुहुयाज्जातवेदसम् ॥
ऋत्विक्पुत्रोऽथ पत्नी वा शिष्यो वाऽपि सहोदरः ।
प्राप्यानुज्ञां विशेषेण जुहुयुर्वा यताविधि ॥
पवित्रपाणिः पूतात्मा शुक्लाम्बरधरः शुचिः ।
अनन्यमानसो वह्निं जुहुयात् संयतेन्द्रियः ॥
केतु कवच
ॐ अस्य श्रीकेतुकवचस्तोत्रमहामन्त्रस्य। त्र्यम्बक-ॠषि�....
Click here to know more..भद्रकाली स्तुति
कालि कालि महाकालि भद्रकालि नमोऽस्तु ते। कुलं च कुलधर्मं ....
Click here to know more..మనస్సు యొక్క శుద్ధి కోసం శ్రీ వెంకటేశుని మంత్రం
నిరంజనాయ విద్మహే నిరాభాసాయ ధీమహి . తన్నో వేంకటేశః ప్రచోదయాత్ ..
Click here to know more..இழந்த அல்லது திருடப்பட்ட பொருட்களை மீட்டெடுப்பதற்கான மந்திரம்
கார்தவீர்யார்ஜுனோ நாம ராஜா பா³ஹுஸஹஸ்ரவான். அஸ்ய ஸம்ஸ்மரணாதே³வ ஹ்ருதம் நஷ்டம் ச லப்⁴யதே..
Click here to know more..జగద్గురువు అనుగ్రహం కోసం మంత్రం
సురాచార్యాయ విద్మహే దేవపూజ్యాయ ధీమహి . తన్నో గురుః ప్రచోదయాత్ .
Click here to know more..புத்திசாலித்தனம் மற்றும் மகிழ்ச்சியுடன் உங்கள் மனதை தெளிவுபடுத்தும் சூரிய மந்திரம்
பா⁴ஸ்கராய வித்³மஹே மஹத்³த்³யுதிகராய தீ⁴மஹி . தன்னோ ஆதி³த்ய꞉ ப்ரசோத³யாத் .
Click here to know more..கணிப்பு சக்தியைப் பெறுவதற்கான மந்திரம்
தி³வாகராய வித்³மஹே ராஶிசக்ராதி⁴பாய தீ⁴மஹி . தன்ன꞉ ஸூர்ய꞉ ப்ரசோத³யாத் ..
Click here to know more..