भगवति भगवत्पदपङ्कजं भ्रमरभूतसुरासुरसेवितम् ।
सुजनमानसहंसपरिस्तुतं कमलयाऽमलया निभृतं भजे ॥
ते उभे अभिवन्देऽहं विघ्नेशकुलदैवते ।
नरनागाननस्त्वेको नरसिंह नमोऽस्तुते ॥
हरिगुरुपदपद्मं शुद्धपद्मेऽनुरागाद्-
विगतपरमभागे सन्निधायादरेण ।
तदनुचरि करोमि प्रीतये भक्तिभाजां
भगवति पदपद्मे पद्यपुष्पाञ्जलिं ते ॥
केनैते रचिताः कुतो न निहिताः शुम्भादयो दुर्मदाः
केनैते तव पालिता इति हि तत् प्रश्ने किमाचक्ष्महे ।
ब्रह्माद्या अपि शंकिताः स्वविषये यस्याः प्रसादावधि
प्रीता सा महिषासुरप्रमथिनी च्छिन्द्यादवद्यानि मे ॥
पातु श्रीस्तु चतुर्भुजा किमु चतुर्बाहोर्महौजान्भुजान्
धत्तेऽष्टादशधा हि कारणगुणाः कार्ये गुणारम्भकाः ।
सत्यं दिक्पतिदन्तिसंख्यभुजभृच्छम्भुः स्वय्म्भूः स्वयं
धामैकप्रतिपत्तये किमथवा पातुं दशाष्टौ दिशः ॥
प्रीत्याऽष्टादशसंमितेषु युगपद्द्वीपेषु दातुं वरान्
त्रातुं वा भयतो बिभर्षि भगवत्यष्टादशैतान् भुजान् ।
यद्वाऽष्टादशधा भुजांस्तु बिभृतः काली सरस्वत्युभे
मीलित्वैकमिहानयोः प्रथयितुं सा त्वं रमे रक्ष माम् ॥
स्तुतिमितस्तिमितः सुसमाधिना नियमतोऽयमतोऽनुदिनं पठेत् ।
परमया रमयापि निषेव्यते परिजनोऽरिजनोऽपि च तं भजेत् ॥
रमयति किल कर्षस्तेषु चित्तं नराणामवरजवरयस्माद्रामकृष्णः कवीनाम् ।
अकृतसुकृतिगम्यं रम्यपद्यैकहर्म्यं स्तवनमवनहेतुं प्रीतये विश्वमातुः ॥
इन्दुरम्यो मुहुर्बिन्दुरम्यो मुहुर्बिन्दुरम्यो यतः साऽनवद्यं स्मृतः ।
श्रीपतेः सूनूना कारितो योऽधुना विश्वमातुः पदे पद्यपुष्पाञ्जलिः ॥
गुह अष्टक स्तोत्र
शान्तं शम्भुतनूजं सत्यमनाधारं जगदाधारं ज्ञातृज्ञाननि�....
Click here to know more..दुर्गा पंचक स्तोत्र
कर्पूरेण वरेण पावकशिखा शाखायते तेजसा वासस्तेन सुकम्पते....
Click here to know more..पढ़ाई के लिए हयग्रीव मंत्र
ज्ञानानन्दाय विद्महे वागीश्वराय धीमहि । तन्नो हयग्रीवः....
Click here to know more..