नमस्ते हे स्वस्तिप्रदवरदहस्ते सुहसिते
महासिंहासीने दरदुरितसंहारणरते ।
सुमार्गे मां दुर्गे जननि तव भर्गान्वितकृपा
दहन्ती दुश्चिन्तां दिशतु विलसन्ती प्रतिदिशम् ॥
अनन्या गौरी त्वं हिमगिरि-सुकन्या सुमहिता
पराम्बा हेरम्बाकलितमुखबिम्बा मधुमती ।
स्वभावैर्भव्या त्वं मुनिमनुजसेव्या जनहिता
ममान्तःसन्तापं हृदयगतपापं हर शिवे ॥
अपर्णा त्वं स्वर्णाधिकमधुरवर्णा सुनयना
सुहास्या सल्लास्या भुवनसमुपास्या सुलपना ।
जगद्धात्री पात्री प्रगतिशुभदात्री भगवती
प्रदेहि त्वं हार्दं परमसमुदारं प्रियकरम् ॥
धरा दुष्टैर्भ्रष्टैः परधनसुपुष्टैः कवलिता
दुराचारद्वारा खिलखलबलोद्वेगदलिता ।
महाकाली त्वं वै कलुषकषणानां प्रशमनी
महेशानी हन्त्री महिषदनुजानां विजयिनी ॥
इदानीं मेदिन्या हृदयमतिदीनं प्रतिदिनं
विपद्ग्रस्तं त्रस्तं निगदति समस्तं जनपदम् ।
महाशङ्कातङ्कैर्व्यथितपृथिवीयं प्रमथिता
नराणामार्त्तिं ते हरतु रणमूर्त्तिः शरणदा ॥
समग्रे संसारे प्रसरतु तवोग्रं गुरुतरं
स्वरूपं संहर्त्तुं दनुजकुलजातं कलिमलम् ।
पुनः सौम्या रम्या निहितममतास्नेहसुतनु-
र्मनोव्योम्नि व्याप्ता जनयतु जनानां हृदि मुदम् ॥
अनिन्द्या त्वं वन्द्या जगदुरसि वृन्दारकगणैः
प्रशान्ते मे स्वान्ते विकशतु नितान्तं तव कथा ।
दयादृष्टिर्देया सकलमनसां शोकहरणी
सदुक्त्या मे भक्त्या तव चरणपद्मे प्रणतयः ॥
भवेद् गुर्वी चार्वी चिरदिवसमुर्वी गतभया
सदन्ना सम्पन्ना सरससरणी ते करुणया ।
समुत्साहं हासं प्रियदशहरापर्वसहितं
सपर्या ते पर्यावरणकृतकार्या वितनुताम् ॥
शिव मानस पूजा स्तोत्र
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत....
Click here to know more..चामुण्डेश्वरी मंगल स्तोत्र
श्रीशैलराजतनये चण्डमुण्डनिषूदिनि। मृगेन्द्रवाहने तुभ....
Click here to know more..स्थान, संग और समय मानव को भला या बुरा बना देते हैं
तुलसीदास जी रामचरितमानस में कहते हैं - स्थान, संग और समय म�....
Click here to know more..