केशवं केशिमथनं वासुकेर्नोगशायिनम् ।
रासक्रीडाविलासाढ्यं कृष्णं वन्दे जगद्गुरुम् ॥
नारायणं नरहरिं नारदादिभिरर्चितम् ।
तारकं भवबन्धानां कृष्णं वन्दे जगद्गुरुम् ॥
माधवं मधुरावासं भूधरोद्धारकं विभुम् ।
आधारं सर्वभूतानां कृष्णं वन्दे जगद्गुरुम् ॥
गोविन्दमिन्दुवदनं श्रीवन्द्यचरणाम्बुजम् ।
नवेन्दीवरसङ्काशं कृष्णं वन्दे जगद्गुरुम् ॥
विष्णुमुष्णीषभूषाढ्यं जिष्णुं दानवमर्दनम् ।
तृष्णाभयप्रभेत्तारं कृष्णं वन्दे जगद्गुरुम् ॥
मधुसूदनं विधिनुतं बुधमानसवासितम् ।
दधिचोरं महाभागं कृष्णं वन्दे जगद्गुरुम् ॥
त्रिविक्रमं त्रिलोकेशं वृषाद्यदितिजैर्नुतम् ।
कविं पुराणपुरुषं कृष्णं वन्दे जगद्गुरुम् ॥
वामनं श्रीमदाकारं कामितार्थफलप्रदम् ।
रामानुजं सामलोलं कृष्णं वन्दे जगद्गुरुम् ॥
श्रीधरं श्रीधरानुतं राधेयाद्यैर्नुतं हरिम् ।
राधाविडम्बनासक्तं कृष्णं वन्दे जगद्गुरुम् ॥
हृषीकेशं विषावासं भिषजं भवरोगिणाम् ।
तुषाराद्रिसुतावन्द्यं कृष्णं वन्दे जगद्गुरुम् ॥
पद्मनाभं पद्मनेत्रं पद्माहृत्पद्मबम्भरम् ।
आध्मातमुरलीलोलं कृष्णं वन्दे जगद्गुरुम् ॥
दामोदरं श्यामलाङ्गं सोमसूर्यविलोचनम् ।
चामीकराम्बरधरं कृष्णं वन्दे जगद्गुरुम् ॥
सङ्कर्षणं वेङ्कटेशं ओङ्काराकारमव्ययम् ।
शङ्खचक्रगदापाणिं कृष्णं वन्दे जगद्गुरुम् ॥
वासुदेवं व्यासनुतं भासुराभरणोज्ज्वलम् ।
दासपोषणसंसक्तं कृष्णं वन्दे जगद्गुरुम् ॥
प्रद्युम्नमाम्नायमयं खद्योतनमयार्चितम् ।
वैद्यनाथं प्रपञ्चास्यं कृष्णं वन्दे जगद्गुरुम् ॥
अनिरुद्धं ध्रुवनुतं शुद्धसङ्कल्पमव्ययम् ।
शुद्धब्रह्मानन्दरूपं कृष्णं वन्दे जगद्गुरुम् ॥
नरोत्तमं पुराणेशं मुरदानववैरिणम् ।
करुणावरुणावासं कृष्णं वन्दे जगद्गुरुम् ॥
अधोक्षजं सुधालापं बुवमानसवासिनम् ।
अधिकानुग्रहं रक्षं कृष्णं वन्दे जगद्गुरुम् ॥
नारसिंह दारुणास्यं क्षीराम्बुधिनिकेतनम् ।
वीराग्रेसरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥
अच्युतं कच्छपाकारमुज्ज्वलं कुण्डलोज्ज्वलम् ।
सच्चिदानन्दरूपं च कृष्णं वन्दे जगद्गुरुम् ॥
जनार्दनं घनाकारं सनातनतमं विभुम् ।
विनायकपतिं नाथं कृष्णं वन्दे जगद्गुरुम् ॥
उपेन्द्रमिन्द्रावरजं कवीन्द्रनुतविग्रहम् ।
कविं पुराणपुरुषं कृष्णं वन्दे जगद्गुरुम् ॥
हरिं सुरासुरनुतं दुरालोकं दुरीक्षणम् ।
परेशं मुरसंहारं कृष्णं वन्दे जगद्गुरुम् ॥
श्रीकृष्णं गोकुलावासं साकेतपुरवासिनम् ।
आकाशकालदिग्रूपं कृष्णं वन्दे जगद्गुरुम् ॥
कृष्णस्तोत्रं चतुर्विंशमेतत् सन्नामगर्भितम् ।
यः पठेत् प्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥
भयहारक शिव स्तोत्र
व्योमकेशं कालकालं व्यालमालं परात्परम्| देवदेवं प्रपन्न....
Click here to know more..सुब्रह्मण्य भुजंग स्तोत्र
सदा बालरूपाऽपि विघ्नाद्रिहन्त्री महादन्तिवक्त्राऽपि �....
Click here to know more..शिव: जो सबके परे हैं और सब प्रकट करते हैं