अव्यक्तमिन्द्रवरदं वनमालिनं तं
पुण्यं महाबलवरेण्यमनादिमीशम्।
दामोदरं जयिनमद्वयवेदमूर्तिं
बालं मुकुन्दममरं सततं नमामि।
गोलोकपुण्यभवने च विराजमानं
पीताम्बरं हरिमनन्तगुणादिनाथम्।
राधेशमच्युतपरं नरकान्तकं तं
बालं मुकुन्दममरं सततं नमामि।
गोपीश्वरं च बलभद्रकनिष्ठमेकं
सर्वाधिपं च नवनीतविलेपिताङ्गम्।
मायामयं च नमनीयमिळापतिं तं
बालं मुकुन्दममरं सततं नमामि।
पङ्केरुहप्रणयनं परमार्थतत्त्वं
यज्ञेश्वरं सुमधुरं यमुनातटस्थम्।
माङ्गल्यभूतिकरणं मथुराधिनाथं
बालं मुकुन्दममरं सततं नमामि।
संसारवैरिणमधोक्षजमादिपूज्यं
कामप्रदं कमलमाभमनन्तकीर्तिम्।
नारायणं सकलदं गरुडध्वजं तं
बालं मुकुन्दममरं सततं नमामि।
कृष्णस्य संस्तवमिमं सततं जपेद्यः
प्राप्नोति कृष्णकृपया निखिलार्थभोगान्।
पुण्यापवर्गसकलान् सकलान् निकामान्
निःशेषकीर्तिगुणगानवरान् नरः सः।
उमा अक्षरमाला स्तोत्र
अक्षरं वाक्पथातीतं ऋक्षराजनिभाननम्। रक्षताद्वाम नः कि�....
Click here to know more..अन्नपूर्णा स्तुति
अन्नदात्रीं दयार्द्राग्रनेत्रां सुरां लोकसंरक्षिणीं �....
Click here to know more..उदिते तु सहस्रांशौ
जुगनू तब तक ही चमकता है जब तक चंद्रोदय नहीं होता | पर सूर्य ....
Click here to know more..