श्रीमन्वृषभशैलेश वर्धतां विजयी भवान्।
दिव्यं त्वदीयमैश्वर्यं निर्मर्यादं विजृम्भताम्।
देवीभूषायुधैर्नित्यैर्मुक्तैर्मोक्षैकलक्षणैः।
सत्त्वोत्तरैस्त्वदीयैश्च सङ्गः स्तात्सरसस्तव।
प्राकारगोपुरवरप्रासादमणिमण्टपाः।
शालिमुद्गतिलादीनां शालाश्शैलकुलोज्ज्वलाः।
रत्नकाञ्चनकौशेयक्षौमक्रमुकशालिकाः।
शय्यागृहाणि पर्यङ्कवर्याः स्थूलासनानि च।
कनत्कनकभृङ्गारपतद्ग्रहकलाचिकाः।
छत्रचामरमुख्याश्च सन्तु नित्याः परिच्छदाः।
अस्तु निस्तुलमव्यग्रं नित्यमभ्यर्चनं तव।
पक्षेपक्षे विवर्धन्तां मासिमासि महोत्सवाः।
मणिकाञ्चनचित्राणि भूषणान्यम्बराणि च।
काश्मीरसारकस्तूरीकर्पूराद्यनुलेपनम्।
कोमलानि च दामानि कुसुमैस्सौरभोत्करैः।
धूपाः कर्पूरदीपाश्च सन्तु सन्ततमेव ते।
नृत्तगीतयुतं वाद्यं नित्यमत्र विवर्धताम्।
श्रोत्रेषु च सुधाधाराः कल्पन्तां काहलीस्वनाः।
कन्दमूलफलोदग्रं कालेकाले चतुर्विधम्।
सूपापूपघृतक्षीरशर्करासहितं हविः।
घनसारशिलोदग्रैः क्रमुकाष्टदलैः सह।
विमलानि च ताम्बूलीदलानि स्वीकुरु प्रभो।
प्रीतिभीतियुतो भूयाद्भूयान् परिजनस्तव।
भक्तिमन्तो भजन्तु त्वां पौरा जानपदास्तथा।
वरणीधनरत्नानि वितरन्तु चिरं तव।
कैङ्कर्यमखिलं सर्वे कुर्वन्तु क्षोणिपालकाः।
प्रेमदिग्धदृशः स्वैरं प्रेक्षमाणास्त्वदाननम्।
महान्तस्सन्ततं सन्तो मङ्गलानि प्रयुञ्जताम्।
एवमेव भवेन्नित्यं पालयन् कुशली भवान्।
मामहीरमण श्रीमान् वर्धतामभिवर्धताम्।
पत्युः प्रत्यहमित्थं यः प्रार्थयेत समुच्चयम्।
प्रसादसुमुखः श्रीमान् पश्यत्येनं परः पुमान्।
दक्षिणामूर्ति अष्टोत्तर शत नामावलि
ॐ सुचेतनाय नमः। ॐ मतिप्रज्ञासुधारकाय नमः। ॐ मुद्रापुस्�....
Click here to know more..शिव पंचाक्षर स्तोत्र
नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय। न�....
Click here to know more..ஸ்ரீ கிருஷ்ண த்வாதஷாக்ஷர மந்திரம்
ௐ நமோ ப⁴க³வதே வாஸுதே³வாய....
Click here to know more..