माणिक्यरजतस्वर्णभस्मबिल्वादिभूषितम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
दधिचन्दनमध्वाज्यदुग्धतोयाभिसेचितम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
उदितादित्यसङ्काशं क्षपाकरधरं वरम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
लोकानुग्रहकर्तारमार्त्तत्राणपरायणम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
ज्वरादिकुष्ठपर्यन्तसर्वरोगविनाशनम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
अपवर्गप्रदातारं भक्तकाम्यफलप्रदम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
सिद्धसेवितपादाब्जं सिद्ध्यादिप्रदमीश्वरम्|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
बालाम्बिकासमेतं च ब्राह्मणैः पूजितं सदा|
वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे|
स्तोत्रं वैद्येश्वरस्येदं यो भक्त्या पठति प्रभोः|
कृपया देवदेवस्य नीरोगो भवति ध्रुवम्|
गजानन स्तुति
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे। यं नत्वा कृतक�....
Click here to know more..धैर्य लक्ष्मी अष्टोत्तर शत नामावलि
ॐ श्रीं ह्रीं क्लीम्। धैर्यलक्ष्म्यै नमः । अपूर्वायै नम�....
Click here to know more..बाधाओं को दूर करें इस पवित्र गणेश मंत्र से
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदय....
Click here to know more..