नमो नमो भारताम्बे सारस्वतशरीरिणि ।
नमोऽस्तु जगतां वन्द्ये ब्रह्मविद्याप्रकाशिनि ।
नमो नमो भारताम्बे हिमालयकिरीटिनि ।
गङ्गाद्याः सरितः सर्वाः स्तन्यं ते विश्वपावनि ।
नमो नमो भारताम्बे बदरीशण्डमण्डिते ।
तीर्थीकुर्वन्ति लोकांस्ते तीर्थभूता मुनीश्वराः ।
नमो नमो भारताम्बे विन्ध्यतुङ्गस्तनायिते ।
समुद्रवसने देवि सह्यमालाविराजिते ।
नमो नमो भारताम्बे मुक्तिकेदाररूपिणि ।
ज्ञानबीजाकरे पूर्णे ऋषीन्द्रततिसेविते ।
नमो नमो भारताम्बे सर्वविद्याविलासिनि ।
गौडमैथिलकाम्पिल्यद्रविडादिशरीरिणि ।
नमो नमो भारताम्बे सर्वतीर्थस्वरूपिणि ।
काश्या हि काशसे मातस्त्वं हि सर्वप्रकाशिका ।
नमो नमो भारताम्बे गुरुस्त्वं जगतां परा ।
वेदवेदान्तगम्भीरे निर्वाणसुखदायिनि ।
यतिलोकपदन्यासपवित्रीकृतपांसवे ।
नमोऽस्तु जगतां धात्रि मोक्षमार्गैकसेतवे ।
लक्ष्मी क्षमापण स्तोत्र
क्षमस्व भगवत्यम्ब क्षमाशीले परात्परे । शुद्धसत्त्वस्व�....
Click here to know more..जानकी स्तोत्र
सर्वजीवशरण्ये श्रीसीते वात्सल्यसागरे। मातृमैथिलि सौल�....
Click here to know more..तत्त्व का अर्थ क्या है?
श्रीमद भागवत के अनुसार तत्त्व शब्द का अर्थ....
Click here to know more..