भवनाशनैकसमुद्यमं करुणाकरं सुगुणालयं
निजभक्ततारणरक्षणाय हिरण्यकश्यपुघातिनम्।
भवमोहदारणकामनाशनदुःखवारणहेतुकं
भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्।
गुरुसार्वभौममर्घातकं मुनिसंस्तुतं सुरसेवितम्
अतिशान्तिवारिधिमप्रमेयमनामयं श्रितरक्षणम्।
भवमोक्षदं बहुशोभनं मुखपङ्कजं निजशान्तिदं
भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्।
निजरूपकं विततं शिवं सुविदर्शनायहितत्क्षणम्
अतिभक्तवत्सलरूपिणं किल दारुतः सुसमागतम्।
अविनाशिनं निजतेजसं शुभकारकं बलरूपिणं
भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्।
अविकारिणं मधुभाषिणं भवतापहारणकोविदं
सुजनैः सुकामितदायिनं निजभक्तहृत्सुविराजितम्।
अतिवीरधीरपराक्रमोत्कटरूपिणं परमेश्वरं
भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्।
जगतोऽस्य कारणमेव सच्चिदनन्तसौख्यमखण्डितं
सुविधायिमङ्गलविग्रहं तमसः परं सुमहोज्वलम्।
निजरूपमित्यतिसुन्दरं खलुसंविभाव्य हृदिस्थितं
भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्।
पञ्चरत्नात्मकं स्तोत्रं श्रीनृसिंहस्य पावनम्।
ये पठन्ति मुदा भक्त्या जीवन्मुक्ता भवन्ति ते।
ओङ्कारेश्वर स्तुति
तथा देवगणाः सर्वे शक्राद्या भयकम्पिताः । ओङ्कारं तत्र त�....
Click here to know more..रसेश्वर स्तुति
भानुसमानसुभास्वरलिङ्गं सज्जनमानसभास्करलिङ्गम्| सुरवर....
Click here to know more..उद्यमेन हि सिध्यन्ति
केवल इच्छा रखने से कार्य सिद्ध नहीं होते| कार्य की सिद्धि ....
Click here to know more..