श्रीदेवराजमनिशं निगमान्तवेद्यं
यज्ञेश्वरं विधिमहेन्द्र- हितैकलक्ष्यम्|
नव्याम्बुवाहसुषमा- तनुशोभमानं
श्रीहस्तिशैलसदनं वरदं प्रपद्ये|
पङ्केरुहासनकृतामल- वाजियज्ञे
वैतानके हुतभुजि त्वरयाऽऽविरासीत्|
मन्दस्मिताञ्चित- मुखेन वपां दशन्
यस्तं नागशैलसदनं वरदं प्रपद्ये|
चण्डांशुशीतकिरणायत- नेत्रयुग्मं
पद्मानिवास- रमणीयभुजान्तरं तम्|
आजानुबाहुमुररी- कृतसप्ततन्तुं
मातङ्गशैलसदनं वरदं प्रपद्ये|
रत्नप्रकाण्ड- रचितालसदूर्ध्वपुण्ड्रं
बिभ्राणमन्तकरिपुप्रिय- मित्रवर्यम्|
शङ्खं च चक्रमभयाङ्कगदे दधानं
नागेन्द्रशैलसदनं वरदं प्रपद्ये|
नन्दात्मजं हलधरं दशकण्ठकालं
क्षत्रद्विषं कलिरिपुं नरसिंहवेषम्|
कोलात्मकं कमठरूपधरं च मत्स्यं
वेतण्डशैलसदनं वरदं प्रपद्ये|
नव दुर्गा स्तोत्र
चन्द्रार्धधारकतनूं च वरां चराणां वाचालवाङ्मयकरां च विभ....
Click here to know more..सर्वार्ति नाशन शिव स्तोत्र
मृत्युञ्जयाय गिरिशाय सुशङ्कराय सर्वेश्वराय शशिशेखरमण�....
Click here to know more..नमामि गंगे
भगवति तव तीरे नीरमात्राशनोऽहं विगतविषयतृष्णः कृष्णमार....
Click here to know more..