देवसेनानिनं दिव्यशूलपाणिं सनातनम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
कार्तिकेयं मयूराधिरूढं कारुण्यवारिधिम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
महादेवतनूजातं पार्वतीप्रियवत्सलम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
गुहं गीर्वाणनाथं च गुणातीतं गुणेश्वरम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
षडक्षरीप्रियं शान्तं सुब्रह्मण्यं सुपूजितम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
तेजोगर्भं महासेनं महापुण्यफलप्रदम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
सुव्रतं सूर्यसङ्काशं सुरारिघ्नं सुरेश्वरम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
कुक्कुटध्वजमव्यक्तं राजवन्द्यं रणोत्सुकम्|
श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्|
षण्मुखस्याष्टकं पुण्यं पठद्भ्यो भक्तिदायकम्|
आयुरारोग्यमैश्वर्यं वीर्यं प्राप्नोति मानुषः|
राम नाम रामायण
शुद्धब्रह्मपरात्पर राम। कालात्मकपरमेश्वर राम। शेषतल्�....
Click here to know more..निर्वाण षट्क
मनोबुद्ध्यहङ्कारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्�....
Click here to know more..भोजन से संबंधित व्यवसाय में सफलता के लिए मंत्र
अन्नवानन्नादो भवति। महान् भवति प्रजया पशुभिर्ब्रह्मवर�....
Click here to know more..