श्रीरामपादसरसी- रुहभृङ्गराज-
संसारवार्धि- पतितोद्धरणावतार।
दोःसाध्यराज्यधन- योषिददभ्रबुद्धे
पञ्चाननेश मम देहि करावलम्बम्।
आप्रातरात्रिशकुनाथ- निकेतनालि-
सञ्चारकृत्य पटुपादयुगस्य नित्यम्।
मानाथसेविजन- सङ्गमनिष्कृतं नः
पञ्चाननेश मम देहि करावलम्बम्।
षड्वर्गवैरिसुख- कृद्भवदुर्गुहाया-
मज्ञानगाढतिमिराति- भयप्रदायाम्।
कर्मानिलेन विनिवेशितदेहधर्तुः
पञ्चाननेश मम देहि करावलम्बम्।
सच्छास्त्रवार्धिपरि- मज्जनशुद्धचित्ता-
स्त्वत्पादपद्मपरि- चिन्तनमोदसान्द्राः।
पश्यन्ति नो विषयदूषितमानसं मां
पञ्चाननेश मम देहि करावलम्बम्।
पञ्चेन्द्रियार्जित- महाखिलपापकर्मा
शक्तो न भोक्तुमिव दीनजनो दयालो।
अत्यन्तदुष्टमनसो दृढनष्टदृष्टेः
पञ्चाननेश मम देहि करावलम्बम्।
इत्थं शुभं भजकवेङ्कट- पण्डितेन
पञ्चाननस्य रचितं खलु पञ्चरत्नम्।
यः पापठीति सततं परिशुद्धभक्त्या
सन्तुष्टिमेति भगवानखिलेष्टदायी।
अक्षय गोपाल कवच
अपुत्रो लभते पुत्रं रोगनाशस्तथा भवेत्। सर्वतापप्रमुक्�....
Click here to know more..कल्पक गणपति स्तोत्र
औमापत्यमिमं स्तवं प्रतिदिनं प्रातर्निशं यः पठेत् श्रीम....
Click here to know more..जीवन की बाधाओं को भगवान गणेश के शक्तिशाली मंत्र से दूर करें
भगवान गणेश का आशीर्वाद प्राप्त करें इस शक्तिशाली मंत्र क....
Click here to know more..