जम्बूद्वीपगशेषशैलभुवनः श्रीजानिराद्यात्मजः
तार्क्ष्याहीशमुखासनस्त्रि- भुवनस्थाशेषलोकप्रियः।
श्रीमत्स्वामिसरःसुवर्ण- मुखरीसंवेष्टितः सर्वदा
श्रीमद्वेङ्कटभूपतिर्मम सुखं दद्यात् सदा मङ्गलम्।
सन्तप्तामलजातरूप- रचितागारे निविष्टः सदा
स्वर्गद्वारकवाट- तोरणयुतः प्राकारसप्तान्वितः।
भास्वत्काञ्चनतुङ्ग- चारुगरुडस्तम्भे पतत्प्राणिनां
स्वप्रे वक्ति हिताहितं सुकरुणो दद्यात् सदा मङ्गलम्।
अत्युच्चाद्रिविचित्र- गोपुरगणैः पूर्णैः सुवर्णाचलैः
विस्तीर्णामलमण्ट- पायुतयुतैर्नानावनैर्निर्भयैः।
पञ्चास्येभवराहखड्ग- मृगशार्दूलादिभिः श्रीपतिः
नित्यं वेदपरायणः सुकृतिनां दद्यात् सदा मङ्गलम्।
भेरीमङ्गलतुर्यगोमुख- मृदङ्गादिस्वनैः शोभिते
तन्त्रीवेणुसुघोष- शृङ्गकलहैः शब्दैश्च दिव्यैर्निजैः।
गन्धर्वाप्सरकिन्नरोरग- नृभिर्नृत्यद्भिरासेव्यते
नानावाहनगः समस्तफलदो दद्यात् सदा मङ्गलम्।
यः श्रीभार्गववासरे नियमतः कस्तूरिकारेणुभिः
श्रीमत्कुङ्कुम- केसरामलयुतः कर्पूरमुख्यैर्जलैः।
स्नातः पुण्यसुकञ्चुकेन विलसत्काञ्ची- किरीटादिभिः
नानाभूषणपूग- शोभिततनुर्दद्यात् सदा मङ्गलम्।
तीर्थं पाण्डवनामकं शुभकरं त्वाकाशगङ्गा परा
इत्यादीनि सुपुण्यराशि- जनकान्यायोजनैः सर्वदा।
तीर्थं तुम्बुरुनामकं त्वघहरं धारा कुमाराभिधा
नित्यानन्दनिधि- र्महीधरवरो दद्यात् सदा मङ्गलम्।
आर्तानामति- दुस्तरामयगणै- र्जन्मान्तराघैरपि
सङ्कल्पात् परिशोध्य रक्षति निजस्थानं सदा गच्छताम्।
मार्गे निर्भयतः स्वनामगृणतो गीतादिभिः सर्वदा
नित्यं शास्त्रपरायणैः सुकृतिनां दद्यात् सदा मङ्गलम्।
नित्यं ब्राह्मणपुण्यवर्य- वनितापूजासमाराधनै-
रत्नैः पायसभक्ष्यभोज्य- सुघृतक्षीरादिभिः सर्वदा।
नित्यं दानतपःपुराण- पठनैराराधिते वेङ्कटक्षेत्रे
नन्दसुपूर्णचित्रमहिमा दद्यात् सदा मङ्गलम्।
इत्येतद्वर- मङ्गलाष्टकमिदं श्रीवादिराजेश्वरै-
राख्यातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम्।
माङ्गल्यं सकलार्थदं शुभकरं वैवाहिकादिस्थले
तेषां मङ्गलशंसतां सुमनसां दद्यात् सदा मङ्गलम्।
शिव भक्ति कल्पलतिका स्तोत्र
श्रीकान्तपद्मजमुखैर्हृदि चिन्तनीयं श्रीमत्क्व शङ्कर �....
Click here to know more..गंगा लहरी स्तोत्र
समृद्धं सौभाग्यं सकलवसुधायाः किमपि तन् महैश्वर्यं लीला....
Click here to know more..गर्भोपनिषत्
गर्भोपनिषत् १०८ उपनिषदों में से एक है। गर्भोपनिषत् शारी....
Click here to know more..