माये महामति जये भुवि मङ्गलाङ्गे
वीरे बिलेशयगले त्रिपुरे सुभद्रे।
ऐश्वर्यदानविभवे सुमनोरमाज्ञे
कामाक्षिमातरनिशं मम देहि सौख्यम्।
शैलात्मजे कमलनाभसहोदरि त्वं
त्रैलोक्यमोहकरणे स्मरकोटिरम्ये।
कामप्रदे परमशङ्करि चित्स्वरूपे
कामाक्षिमातरनिशं मम देहि सौख्यम्।
सर्वार्थसाधक- धियामधिनेत्रि रामे
भक्तार्तिनाशनपरे-ऽरुणरक्तगात्रे।
संशुद्धकुङ्कुमकणैरपि पूजिताङ्गे
कामाक्षिमातरनिशं मम देहि सौख्यम्।
बाणेक्षुदण्ड- शुकभारितशुभ्रहस्ते
देवि प्रमोदसमभाविनि नित्ययोने।
पूर्णाम्बुवत्कलश- भारनतस्तनाग्रे
कामाक्षिमातरनिशं मम देहि सौख्यम्।
चक्रेश्वरि प्रमथनाथसुरे मनोज्ञे
नित्यक्रियागतिरते जनमोक्षदात्रि।
सर्वानुतापहरणे मुनिहर्षिणि त्वं
कामाक्षिमातरनिशं मम देहि सौख्यम्।
एकाम्रनाथ- सहधर्म्मिणि हे विशाले
संशोभिहेम- विलसच्छुभचूडमौले।
आराधितादिमुनि- शङ्करदिव्यदेहे
कामाक्षिमातरनिशं मम देहि सौख्यम्।
कुंज बिहारी स्तोत्र
इन्द्रनीलमणिमञ्जुलवर्णः फुल्लनीपकुसुमाञ्चितकर्णः । क....
Click here to know more..गजानन स्तुति
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे। यं नत्वा कृतक�....
Click here to know more..दुर्गा सूक्त
ॐ जातवेदसे सुनवाम सोम मरातीयतो निदहाति वेदः । स नः पर्षद�....
Click here to know more..