सहस्रनयनः सूर्यो रविः खेचरनायकः|
सप्ताश्ववाहनो देवो दिनेशः शरणं मम|
तुहिनांशुः शशाङ्कश्च शिवशेखरमण्डनः|
ओषधीशस्तमोहर्ता राकेशः शरणं मम|
महोग्रो महतां वन्द्यो महाभयनिवारकः|
महीसूनुर्महातेजा मङ्गलः शरणं मम|
अभीप्सितार्थदः शूरः सौम्यः सौम्यफलप्रदः|
पीतवस्त्रधरः पुण्यः सोमजः शरणं मम|
धर्मसंरक्षकः श्रेष्ठः सुधर्माधिपतिर्द्विजः|
सर्वशास्त्रविपश्चिच्च देवेज्यः शरणं मम|
समस्तदोषविच्छेदी कविकर्मविशारदः|
सर्वज्ञः करुणासिन्धु- र्दैत्येज्यः शरणं मम|
वज्रायुधधरः काकवाहनो वाञ्छितार्थदः|
क्रूरदृष्टिर्यमभ्राता रविजः शरणं मम|
सैंहिकेयोऽर्द्धकायश्च सर्पाकारः शुभङ्करः|
तमोरूपो विशालाक्ष असुरः शरणं मम|
दक्षिणाभिमुखः प्रीतः शुभो जैमिनिगोत्रजः|
शतरूपः सदाराध्यः सुकेतुः शरणं मम
चण्डिका अष्टक स्तोत्र
सहस्रचन्द्रनित्दकातिकान्तचन्द्रिकाचयै- दिशोऽभिपूरयद�....
Click here to know more..वक्रतुंड स्तुति
सदा ब्रह्मभूतं विकारादिहीनं विकारादिभूतं महेशादिवन्द�....
Click here to know more..तुलसीदासजी कहते हैं - अगर याचना करनी है तो गिरिजापति से - विनय पत्रिका से जाँचिये गिरिजापति कासी भजन