नमस्ते प्रियपद्माय नमः पद्माप्रियाय ते ।
नमः पद्मश्रिये राम नमः पद्मस्थिताय ते ॥
नमस्ते पद्मनेत्राय नमः पद्ममुखाय ते ।
नमस्ते पद्महस्ताय नमः पद्मपदाय ते ॥
नमः पद्येशरूपाय नमो हृत्पद्मवासिने ।
नमः पद्मविभूषाय नमः पद्मविकासिने ॥
नमस्ते पद्मगन्धाय नमस्ते पद्मकारिणे ।
नमस्ते पद्मरूपाय नमः पद्मविहारिणे ॥
नमो वर्णितपद्माय नमः श्रीपद्ममालिने ।
नमः पद्मजवन्द्याय नमः श्रीपद्मशालिने ॥
श्रीयुतालखरामार्यद्वाराचार्यविनिर्मिता ।
इयं हि विंशतिर्भयाच्छ्रीरामप्रीतिदायिनी ॥