अनन्तमहिमव्याप्तविश्वां वेधा न वेद याम् ।
या च मातेव भजते प्रणते मानवे दयाम् ॥
नतापनीतक्लेशायाः सुरारिजनतापनी ।
न तापनी तनुर्यस्यास्तुल्या नादीनतापनी ॥
वक्त्रपद्मा विधेर्भान्ति यया सर्गलयो दया ।
या साक्षाद्या च जनितस्थितिसर्गलयोदया ॥
याश्रिता पावनतया यातनाच्छिदनीचया ।
याचनीया धिया मायायामायासं स्तुता श्रिया ॥
नमांसि ध्वंसमायान्ति अस्याः स्तुत्यादरेण वः ।
तस्याः सिद्ध्यै धियां मातुः कल्पन्तां पादरेणवः ॥
ऋषीणां सादयामास या तमांसि त्रयीमयी ।
पायाद्वः सा दयामाधिच्छिदं जगति बिभ्रती ॥
स्मरद्विषा या ययाचे यया चेयं विधेः क्रिया ।
यां चाच्युतोऽपि तुष्टाव तुष्टा वः साऽस्तु पार्वती ॥
या दमावनयागेन स्वाराथा नयसारया ।
हरिकैतवहास्याय सायामा विजिता यया ॥
यायताजिविमया सा यस्या हा बत कैरिह ।
या रसायनधारा स्वा न गेयानवमा दया ॥
सा बुद्धिरुत्तमालोकः सतामार्या पुनातु वः ।
यद्भक्तेरुत्तमा लोकः प्राप्नोत्येष विशुद्धताम् ॥
अयुद्ध साधुत्राणाय सामरा या सहारिणा ।
खड्गेन दीप्रा देवानां सामरायासहारिणा ॥
चरणाघातनिहतकासरा च रणाजिरे ।
रराज या नयजयैरराजसजनानता ॥
सावताद्वोऽम्बिकाऽभ्यर्च्यनामा न न यशोभितः ।
तनोति प्रणतो यस्या ना माननयशोभितः ॥
संयतं याचमानेन यस्याः प्रापि द्विषा वधः ।
संयतं या च मानेन युनक्ति प्रणतं जनम् ॥
या दमानवमानन्दपदमाननमानदा ।
दानमानक्षमानित्यधनमानवमानिता ॥
सा रक्षतादपारा ते रसकृद्गौरबाधिका ।
सारक्षतादपारातेरसकृद्गौरवाधिका ॥
अनुत्तमोहराशयो भवन्ति यामनाश्रिताः ।
अनुत्तमो हराशयो यया चिरं च रञ्जितः ॥
अनन्तरागतापायास्तारयित्री भवापदः ।
अनन्तरागतापायाः सा वो गौरी हियात्क्रियाः ॥
यामायासजिदासक्तशोकजालस्य पातिनी ।
या माता सर्वदा भक्तलोकजालस्य पालनी ॥
सामरागमनायासं त्यक्त्वा सार्धं सुरारिभिः ।
सामरा गमनायासन्नुद्यता युधि यद्गणाः ॥
सामोदयाजया शातैः शस्त्रैः शत्रौ हते यया ।
सामोदया जयाशा तैर्गीर्वाणैर्गर्वतो जहे ॥
ययायायाय्यया यूयं यो योऽयं येययैय याम् ।
ययुयायिययेयाय ययेऽयायाय याययुक् ॥
साऽव्याद्गौरी सदा युष्मान्सदायुष्मान्समृद्ध्यति ।
शरणं यां नरो गच्छन्न रोगच्छन्दमेति च ॥
कृतास्पदा यथा सम्पदघानि सुरवैरिषु ।
हन्ति या वाङ्मयी दूरादघानि सुरवैरिषुः ॥
जितानया या नताजितारसाततसारता ।
न सावना नावसानयातनारिरिना तया ॥
मनोभवारातिमनोभिरामया जरामयापाकरणैकदक्षया ।
मदक्षयान्निर्मलतां ददानया सदा नयास्था क्रियतां तवार्यया ॥
समाययाविन्द्रहिताय या रणे समायया या न जितारिसेनया ।
स मा ययाचे हरमाश्रितः स्फुटं समा यया मुग्धतया मनोज्ञताः ॥
सा भावक्षालवर्या नुतविभवितनुर्या वलक्षावभासा
जानानस्याशयप्रा नवनलिनवनप्रायशस्याननाजा ।
सातं वर्माननस्था रहसि रसिहरस्थाननर्मावतंसा
पायादक्ता रणत्रा मतनमनतमत्राणरक्ता दयापा ॥
उपासते कृष्टिकृतोदयां यां जना सदाराधनमीहमानाः ।
शम्भोः प्रसिद्धा तनुतां वहन्ती गौरी हितं सा भवतां विधेयात् ॥
यां सद्य एव त्रिदशैः पुमांसः समा नमस्यन्ति सदानभोगाः ।
अघानि यस्य प्रणता विपक्षैः समानमस्यन्ति सदा नभोगाः ॥
यस्याः प्रभावो द्युसदां विपक्षसेना वधानन्दयिताहरस्य ।
मनोम्बुजस्यावहतु श्रियै वः सेनावधानं दयिता हरस्य ॥
सुरा जिता भावितदेवराजद्विपक्षमा यात रणादभीतम् ।
स्वापं न वो धाम हितं न नाम सदैवसेना भवतोहितानाम् ॥
सुराजिता भावितदेवराजद्विपक्षमाया तरणादभीतम् ।
स्वापन्नबोधामहितं ननाम सदैव सेना भवतो हितानाम् ॥
सुरानिति द्वेषिजनैरभिद्रुतानुदाहरद्या स्वयमाहवोद्यता ।
शिवोऽद्य तापप्रशमस्तया तव प्रशस्तया तत्त्वदृशा विधीयताम् ॥
वक्रं बिभ्रत्युपहितचन्द्रायासं या संमोहप्रशमनसूर्याकारा ।
कारानीतामरमरिमाचिक्षेप क्षेपत्यक्ता रणभुवि सा वः पायात् ॥
हिते हितेऽस्तु ते स्तुते जिताजितामितामिता ।
जयाजया जनोऽजनो यया ययावलं बलम् ॥
या मूर्तिं किमपि स्मरारिवपुषा धत्ते समायोजितां
यां दृष्ट्वैव विनाशमाप सहसा शुम्भः समायोऽजिताम् ।
या नम्रैः सुरसिद्धिकिंनरनरैः खेदं विना शस्यते
सा हेतुर्भवतां त्रिलोचनवधूरश्रीविनाशस्य ते ॥
सायासायास्त्रिलोक्याः शरणमकरुणक्षुण्णदैत्यप्रवीरा
स्वैरं स्वैरंशसर्गैर्गहनतममहामोहहार्दं हरन्ती ।
शस्याशस्यादधाना सकलमभिहितं भक्तिभाजः स्मृतैव
स्तादस्तादभ्रदोषा द्विषदुपशमनी सर्वतः पार्वती वः ॥
सुरसुरचितचितनवनवभवभवनानादरादरायेथे ।
लयलयचरणौ चरणौ न न मामि नतेन नमामि न ते ॥
या विस्मयं स्मरभिदा चक्रेऽङ्कारोपिता नवं नारीणाम् ।
विदधे यच्चापस्य न च क्रेङ्कारोऽपि तानवं नारीणाम् ॥
या हन्तां च प्रयाता विहाथसा कंसमाह तारातिबलेन ।
कृष्णस्तव परमाया विहाय साकं समाहतारातिबलेन ॥
तां नमत या च समरेष्वनेकशो भाति भद्रकाली नतया ।
ख्याति यया जनतोज्ज्वलविवेकशोभातिभद्राकालीनतया ॥
तां स्मरत था स्मृतैव हि मानवतामरसमानता राति बलात् ।
यत्प्रणतं श्रीः श्रयते मानवतामरसमान ताराति बलात् ॥
अनवरागसमुद्भवदेहतामुपगता ददृशे गिरिशेन या ।
अनवरागसमुद्भवदेह तामवनतोऽस्मि जगात्प्रियतां सतीम् ॥
मेने नूनमनेन माननमुमानाम्ना नु मेनोन्मना
नुन्नेनोनमने निमानममुना नो नाम नानानुमे ।
मौनेनामममाननिम्नमननान्नानामिनानूनिमे
सुन्मिन्नाननमा नमी मुनिमनोमानाननोन्नामिनि ॥
तां वन्देऽहं नवं देहं ज्ञानरूपं विधाय या ।
सुघीरस्यति धीरस्य महामोहमयीं त्वचम् ॥
यां नुत्वा यान्ति हृद्यार्थसज्जायां गिरि शस्यताम् ।
नौम्यहं भक्तिमास्थाय सज्जायां गिरिशस्य ताम् ॥
यदानतोऽयदानतो न यात्ययं नयात्ययम् ।
शिवे हितां शिवेहितां स्मरामितां स्मरामि ताम् ॥
सरस्वतिप्रसादं मे स्थिति चित्तसरस्वति ।
सरस्वति कुरु क्षेत्रकुरुक्षेत्रसरस्वति ॥
त्वद्भक्तिभावितधियो जगतामत्र ये त्रये ।
जन्मवत्तामहं मन्ये तेषामेवानृणां नृणाम् ॥
जगतः सातिरेका त्वं गतिरस्य स्थिराधिका ।
तरस्यत्रासतारारेः सास्यत्रासरसस्थिति ॥
त्वन्नामस्मरणादेव न लक्ष्मीश्चपलायते ।
सर्वतः पार्वति क्षिप्रमलक्ष्मीश्च पलायते ॥
जयन्ति भक्ता वित्तेशसमरायस्तबाहवे ।
तुभ्यन्नमस्त्रिलोक्यर्थसमरायस्तबाहवे ॥
सत्त्वं सम्यक्त्वमुन्मील्य हृदि भासि विराजसे ।
द्विषामरीणा त्वं सेनां वाहिनीमुदकम्पयः ॥
दूरागतरसा धन्यः सेवतेयस्तव स्तुतीः ।
दूरागत रसाधन्यः कल्पन्ते तस्य सिद्धयः ॥
मोहं हत्वास्पदं यासि सात्त्वमम्बरवासिना ।
या न संस्तूयसे केन सा त्वम्बरवसिना ॥
प्रकाश्य गृह्यपुंसस्यखेदच्छेदाम्बुदावली ।
प्रज्ञात्मनेनविमला स्मिता दृश्यसि विद्वताम् ॥
भवानि ये निरन्तरं तव प्रणामलालसाः ।
मनस्तमोमलालसा भवन्ति नैय तु क्वचित् ॥
विभावनाकुला त्वयि क्रमेण देवि भावना ।
वपुष्पतिस्थिरेतरे नितान्तमेव पुष्यति ॥
महोऽदयानामवधी रणेन महोदयानामवधीरणेन ।
महोदयानामव धीरणेजमहोदयानामवधीरणेन ॥
न मज्जनेन तीर्थानां तदिह प्राप्यते शुभम् ।
नमज्जनेन तीर्थानां सेवया यत्तवाम्बिके ॥
प्रयाति मोहे निःसारभारतीव्रतमेत्ययम् ।
त्वात्प्रासादाज्जनः सारभारतीव्रतमेत्ययम् ॥
शास्त्रप्रभावहसिताः सतां या निर्मला गिरः ।
शास्त्रप्रभावहसितास्त्वमम्बतिमिरच्छिदः ॥
शमीह ते समानतो विभावितोऽत्रसन्न यः ।
विभावितोऽत्र सन्नयः शमीहते स मानतः ॥
मातरं त्वा पदं सद्य आश्रितास्ते कथं जनाः ।
मा तरन्त्वापदं सद्य आद्यं श्रेयः समाश्रिताः ॥
भाति त्वत्तनुसंश्लेषे सत्यम्ब वपुरनुत्तरम् ।
संसाराब्धौ सदाहुस्ते सत्यं वपुरनुत्तरम् ॥
यच्छ मे नित्यसंसङ्गि यच्छमे तदिदं मनः ।
स्वच्छलो भक्तियोगस्ते स्वच्छलोकविवेकसूः ॥
के वलन्ते वितन्वन्तकृतस्त्वत्प्रणता भवे ।
केवलं ते वितन्वन्त आसते विमलां धियम् ॥
देवि निर्दग्धकामस्य त्वं निरावरणात्मनः ।
हरस्य शुभसन्तानं तेनासौ भ्राजते तथा ॥
द्विषद्भिया सपदि विमुच्यते यतस्तवानतो जननि जयाशया न कः ।
स्तवानतो जननिजया शयानकः करोति ते युधि मधुसूदनस्वसः ॥
ज्यायोनिष्ठारिवर्याधिनियमनवरस्वैरदत्तायताज्ञा
स्वाराधत्वासमध्यानियजनजननि ज्ञेयसुस्थावभासा ।
नानापुण्यागमस्था जननमनमयज्ञाननन्द्या वरा धी-
र्याता नव्या विभुत्वं नुतसरलमनस्तामसस्यावहास्ये ॥
स्येहाव स्या समस्तानमलरसतनु त्वं भुवि व्यानतार्या
धीरा वन्द्या न न ज्ञा यमनमननजस्थामगण्या पुनाना ।
सा भावस्था सुयज्ञेऽनिनजनजयनि ध्यामसत्त्वाधरास्वा
ज्ञातायत्तादरस्वैरवनमनिधिर्या वरिष्ठानियोज्या ॥
अलोलकमले चित्तललामकमलालये ।
पाहि चण्डि महामोहभङ्गभीमबलामले ॥
दुर्गापि मातः सुलभासि भक्त्या भवानुकूलापि भवं क्षिणोषि ।
अध्येयतां यासि सदैव देवि ध्येयासि चित्रं चरितं तवैतत् ॥
महदेसुरसन्धम्मे तमवसमासङ्गमागमाहरणे ।
हरबहुसरणं तं चित्तमोहमवसर उमे सहसा ॥
वन्द्या प्रभातसन्ध्येव सूर्यालोकप्रवर्तिनी ।
निवर्तयसि देवि त्वं महामोहमयीं निशाम् ॥
संवादिसारसम्पत्तीसदागोरिजयेसुदे ।
तवसत्तीरदे सन्तु संसारे सुसमानदे ॥
आगममणिसुदमहिमसमसंमदकृदपरजस्सु ।
किर सविभयवदितो समय उज्जलभावसहस्सु ॥
त्वं वादे शास्त्रसङ्गिन्यां भासि वाचि दिवौकसः ।
तवादेशास्त्रसंस्काराज्जयन्ति वरदे द्विषः ॥
सदाव्याजवशिध्याताः सदात्तजपशिक्षिताः ।
ददास्यजस्रं शिवताः सूदात्ताजदिशि स्थिताः ॥
हरेः स्वसारं देवि त्वा जनताश्रित्य तत्त्वतः ।
वेत्ति स्वसारं देवित्वा योगेन क्षपिताशुभा ॥
सदाप्नोति यतिर्ज्योतिस्तादृशं स्वत्प्रभावतः ।
प्रभावतः समो येन कल्पते मोहनुत्तितः ॥
त्वं सद्गतिः सितापारा परा विद्योत्तितीर्षतः ।
संसारादत्र चाम्ब त्वं सत्त्वं पासि विपत्तितः ॥
परमा या तपोवृत्तिरार्यायास्तं स्मृतिं जनाः ।
परमायात पोषाय धियां शरणमादृताः ॥
प्रवादिमतभेदेषु दृश्यस्ते महिमाश्रयः ।
भान्ति त्वत्त्रिशिखस्येव शिखानामसमाश्रयः ॥
यच्चेष्टया तव स्फीतमुदारवसु धामतः ।
यच्चेतो यात्यवहितमुदा रवसुधामतः ॥
सुरदेशस्य ते कीर्तिं मण्डनत्वं नयन्ति यैः ।
वरदे शस्यते धीरैर्भवती भुवि देवता ॥
तत्त्वं वीतावतततुत्तत्वं ततवती ततः ।
वित्तं वित्तव वित्तत्वं वीतावीतवतां बत ॥
तारे शरणमुद्यन्ती सुरेशरणमुद्यमैः ।
त्वं दोषापासिनोदग्रस्वदोषा पासि नोदने ॥
सुमातरक्षयालोक रक्षयात्तमहामनाः ।
त्वं धैर्यजननी पासि जननीतिगुणस्थितीः ॥
ख्यातिकल्पनदक्षैका त्वं सामर्ग्यजुषामितः ।
सदा सरक्षसांमुख्यदानवानामसुस्थितिः ॥
सिता संसत्सु सत्तास्ते स्तुतेस्ते सततं सतः ।
ततास्तितैत्ति तस्तेति सूतिः सूतिस्ततोऽसि सा ॥
त्वदाज्ञया जगत्सर्वं भासितं मलनुद्यतः ।
सदा त्वया सगन्धर्वं समिद्धमरिनुत्तितः ॥
यतो याति ततोऽत्येति यया तां तायतां यतैः ।
मातामितोत्तमतमा तमोतीतां मतिं मम ॥
महत्तां त्वं श्रिता दासजनं मोहच्छिदा वस ।
यच्छद्धत्वं गतः पापमन्यस्य प्रसभं जय ॥
त्वां साज्ञासु जगन्मातः स्पष्टं ज्ञाता सुवर्त्मसु ।
प्रज्ञा मुख्या समुद्भासि तत्पृथुत्वं प्रदर्शय ॥
आज्ञासु जगन्मातः स्पष्टं ज्ञाता सुवर्त्मसु प्रज्ञा ।
भासि त्वं सा मुख्या समुत्पृथुत्वं प्रदर्शय तत् ॥
हन्त्र्यो रुषः क्षमा एता सन्दक्षोभास्तमुन्नतः ।
सतेहितः सेवते ताः सततं यः स ते हितः ॥
करोषि तात्स्त्वमुत्खातमोहस्थाने स्थिरा मतीः ।
पदं यतिः सुतपसा लभतेऽतः सशुक्लिम ॥
देव्या स्वप्नोद्गमादिष्टदेवीशतकसंज्ञया ।
देशितानुपमामाधादतो नोणसुतो नुतिम् ॥
हार्दध्वान्तनियन्तृभास्वरवपुः स्वर्वासिनां सर्वतो
दुर्वारारिपरिक्षयं विदधती ध्यातैव लर्वाणसूः ।
देहार्धे निहिता भवेन भुवनत्राणैकतानात्मना
देवि त्वं त्वमिवापरा जगति का सत्केसरीन्द्रस्थितिः ॥
क्लेशोन्माथकरी सतां भवहरानन्दैकहेतो गुरु-
र्माता त्वं जगतां भवन्ति विधवाः सर्वे तवानुग्रहात् ।
दुर्गे न क्वचिदेव सीदति जनस्त्वद्भक्तिपूताशयः
स्तुत्या भर्तुरभिन्नयेति विबुधैस्त्वं स्तूयसे श्रीरिव ॥
येनानन्दकथायां त्रिदशानन्दे च लालिता वाणी ।
तेन सुदुष्करमेतत्स्तोत्रं देव्याः कृतं भक्त्या ॥
anantamahimavyaaptavishvaam' vedhaa na veda yaam .
yaa cha maateva bhajate pranate maanave dayaam ..
nataapaneetakleshaayaah' suraarijanataapanee .
na taapanee tanuryasyaastulyaa naadeenataapanee ..
vaktrapadmaa vidherbhaanti yayaa sargalayo dayaa .
yaa saakshaadyaa cha janitasthitisargalayodayaa ..
yaashritaa paavanatayaa yaatanaachchhidaneechayaa .
yaachaneeyaa dhiyaa maayaayaamaayaasam' stutaa shriyaa ..
namaam'si dhvam'samaayaanti asyaah' stutyaadarena vah' .
tasyaah' siddhyai dhiyaam' maatuh' kalpantaam' paadarenavah' ..
ri'sheenaam' saadayaamaasa yaa tamaam'si trayeemayee .
paayaadvah' saa dayaamaadhichchhidam' jagati bibhratee ..
smaradvishaa yaa yayaache yayaa cheyam' vidheh' kriyaa .
yaam' chaachyuto'pi tusht'aava tusht'aa vah' saa'stu paarvatee ..
yaa damaavanayaagena svaaraathaa nayasaarayaa .
harikaitavahaasyaaya saayaamaa vijitaa yayaa ..
yaayataajivimayaa saa yasyaa haa bata kairiha .
yaa rasaayanadhaaraa svaa na geyaanavamaa dayaa ..
saa buddhiruttamaalokah' sataamaaryaa punaatu vah' .
yadbhakteruttamaa lokah' praapnotyesha vishuddhataam ..
ayuddha saadhutraanaaya saamaraa yaa sahaarinaa .
khad'gena deepraa devaanaam' saamaraayaasahaarinaa ..
charanaaghaatanihatakaasaraa cha ranaajire .
raraaja yaa nayajayairaraajasajanaanataa ..
saavataadvo'mbikaa'bhyarchyanaamaa na na yashobhitah' .
tanoti pranato yasyaa naa maananayashobhitah' ..
sam'yatam' yaachamaanena yasyaah' praapi dvishaa vadhah' .
sam'yatam' yaa cha maanena yunakti pranatam' janam ..
yaa damaanavamaanandapadamaananamaanadaa .
daanamaanakshamaanityadhanamaanavamaanitaa ..
saa rakshataadapaaraa te rasakri'dgaurabaadhikaa .
saarakshataadapaaraaterasakri'dgauravaadhikaa ..
anuttamoharaashayo bhavanti yaamanaashritaah' .
anuttamo haraashayo yayaa chiram' cha ranjitah' ..
anantaraagataapaayaastaarayitree bhavaapadah' .
anantaraagataapaayaah' saa vo gauree hiyaatkriyaah' ..
yaamaayaasajidaasaktashokajaalasya paatinee .
yaa maataa sarvadaa bhaktalokajaalasya paalanee ..
saamaraagamanaayaasam' tyaktvaa saardham' suraaribhih' .
saamaraa gamanaayaasannudyataa yudhi yadganaah' ..
saamodayaajayaa shaataih' shastraih' shatrau hate yayaa .
saamodayaa jayaashaa tairgeervaanairgarvato jahe ..
yayaayaayaayyayaa yooyam' yo yo'yam' yeyayaiya yaam .
yayuyaayiyayeyaaya yaye'yaayaaya yaayayuk ..
saa'vyaadgauree sadaa yushmaansadaayushmaansamri'ddhyati .
sharanam' yaam' naro gachchhanna rogachchhandameti cha ..
kri'taaspadaa yathaa sampadaghaani suravairishu .
hanti yaa vaangmayee dooraadaghaani suravairishuh' ..
jitaanayaa yaa nataajitaarasaatatasaarataa .
na saavanaa naavasaanayaatanaaririnaa tayaa ..
manobhavaaraatimanobhiraamayaa jaraamayaapaakaranaikadakshayaa .
madakshayaannirmalataam' dadaanayaa sadaa nayaasthaa kriyataam' tavaaryayaa ..
samaayayaavindrahitaaya yaa rane samaayayaa yaa na jitaarisenayaa .
sa maa yayaache haramaashritah' sphut'am' samaa yayaa mugdhatayaa manojnyataah' ..
saa bhaavakshaalavaryaa nutavibhavitanuryaa valakshaavabhaasaa
jaanaanasyaashayapraa navanalinavanapraayashasyaananaajaa .
saatam' varmaananasthaa rahasi rasiharasthaananarmaavatam'saa
paayaadaktaa ranatraa matanamanatamatraanaraktaa dayaapaa ..
upaasate kri'sht'ikri'todayaam' yaam' janaa sadaaraadhanameehamaanaah' .
shambhoh' prasiddhaa tanutaam' vahantee gauree hitam' saa bhavataam' vidheyaat ..
yaam' sadya eva tridashaih' pumaam'sah' samaa namasyanti sadaanabhogaah' .
aghaani yasya pranataa vipakshaih' samaanamasyanti sadaa nabhogaah' ..
yasyaah' prabhaavo dyusadaam' vipakshasenaa vadhaanandayitaaharasya .
manombujasyaavahatu shriyai vah' senaavadhaanam' dayitaa harasya ..
suraa jitaa bhaavitadevaraajadvipakshamaa yaata ranaadabheetam .
svaapam' na vo dhaama hitam' na naama sadaivasenaa bhavatohitaanaam ..
suraajitaa bhaavitadevaraajadvipakshamaayaa taranaadabheetam .
svaapannabodhaamahitam' nanaama sadaiva senaa bhavato hitaanaam ..
suraaniti dveshijanairabhidrutaanudaaharadyaa svayamaahavodyataa .
shivo'dya taapaprashamastayaa tava prashastayaa tattvadri'shaa vidheeyataam ..
vakram' bibhratyupahitachandraayaasam' yaa sam'mohaprashamanasooryaakaaraa .
kaaraaneetaamaramarimaachikshepa kshepatyaktaa ranabhuvi saa vah' paayaat ..
hite hite'stu te stute jitaajitaamitaamitaa .
jayaajayaa jano'jano yayaa yayaavalam' balam ..
yaa moortim' kimapi smaraarivapushaa dhatte samaayojitaam'
yaam' dri'sht'vaiva vinaashamaapa sahasaa shumbhah' samaayo'jitaam .
yaa namraih' surasiddhikim'naranaraih' khedam' vinaa shasyate
saa heturbhavataam' trilochanavadhoorashreevinaashasya te ..
saayaasaayaastrilokyaah' sharanamakarunakshunnadaityapraveeraa
svairam' svairam'shasargairgahanatamamahaamohahaardam' harantee .
shasyaashasyaadadhaanaa sakalamabhihitam' bhaktibhaajah' smri'taiva
staadastaadabhradoshaa dvishadupashamanee sarvatah' paarvatee vah' ..
surasurachitachitanavanavabhavabhavanaanaadaraadaraayethe .
layalayacharanau charanau na na maami natena namaami na te ..
yaa vismayam' smarabhidaa chakre'nkaaropitaa navam' naareenaam .
vidadhe yachchaapasya na cha krenkaaro'pi taanavam' naareenaam ..
yaa hantaam' cha prayaataa vihaathasaa kam'samaaha taaraatibalena .
kri'shnastava paramaayaa vihaaya saakam' samaahataaraatibalena ..
taam' namata yaa cha samareshvanekasho bhaati bhadrakaalee natayaa .
khyaati yayaa janatojjvalavivekashobhaatibhadraakaaleenatayaa ..
taam' smarata thaa smri'taiva hi maanavataamarasamaanataa raati balaat .
yatpranatam' shreeh' shrayate maanavataamarasamaana taaraati balaat ..
anavaraagasamudbhavadehataamupagataa dadri'she girishena yaa .
anavaraagasamudbhavadeha taamavanato'smi jagaatpriyataam' sateem ..
mene noonamanena maananamumaanaamnaa nu menonmanaa
nunnenonamane nimaanamamunaa no naama naanaanume .
maunenaamamamaananimnamananaannaanaaminaanoonime
sunminnaananamaa namee munimanomaanaananonnaamini ..
taam' vande'ham' navam' deham' jnyaanaroopam' vidhaaya yaa .
sugheerasyati dheerasya mahaamohamayeem' tvacham ..
yaam' nutvaa yaanti hri'dyaarthasajjaayaam' giri shasyataam .
naumyaham' bhaktimaasthaaya sajjaayaam' girishasya taam ..
yadaanato'yadaanato na yaatyayam' nayaatyayam .
shive hitaam' shivehitaam' smaraamitaam' smaraami taam ..
sarasvatiprasaadam' me sthiti chittasarasvati .
sarasvati kuru kshetrakurukshetrasarasvati ..
tvadbhaktibhaavitadhiyo jagataamatra ye traye .
janmavattaamaham' manye teshaamevaanri'naam' nri'naam ..
jagatah' saatirekaa tvam' gatirasya sthiraadhikaa .
tarasyatraasataaraareh' saasyatraasarasasthiti ..
tvannaamasmaranaadeva na lakshmeeshchapalaayate .
sarvatah' paarvati kshipramalakshmeeshcha palaayate ..
jayanti bhaktaa vitteshasamaraayastabaahave .
tubhyannamastrilokyarthasamaraayastabaahave ..
sattvam' samyaktvamunmeelya hri'di bhaasi viraajase .
dvishaamareenaa tvam' senaam' vaahineemudakampayah' ..
dooraagatarasaa dhanyah' sevateyastava stuteeh' .
dooraagata rasaadhanyah' kalpante tasya siddhayah' ..
moham' hatvaaspadam' yaasi saattvamambaravaasinaa .
yaa na sam'stooyase kena saa tvambaravasinaa ..
prakaashya gri'hyapum'sasyakhedachchhedaambudaavalee .
prajnyaatmanenavimalaa smitaa dri'shyasi vidvataam ..
bhavaani ye nirantaram' tava pranaamalaalasaah' .
manastamomalaalasaa bhavanti naiya tu kvachit ..
vibhaavanaakulaa tvayi kramena devi bhaavanaa .
vapushpatisthiretare nitaantameva pushyati ..
maho'dayaanaamavadhee ranena mahodayaanaamavadheeranena .
mahodayaanaamava dheeranejamahodayaanaamavadheeranena ..
na majjanena teerthaanaam' tadiha praapyate shubham .
namajjanena teerthaanaam' sevayaa yattavaambike ..
prayaati mohe nih'saarabhaarateevratametyayam .
tvaatpraasaadaajjanah' saarabhaarateevratametyayam ..
shaastraprabhaavahasitaah' sataam' yaa nirmalaa girah' .
shaastraprabhaavahasitaastvamambatimirachchhidah' ..
shameeha te samaanato vibhaavito'trasanna yah' .
vibhaavito'tra sannayah' shameehate sa maanatah' ..
maataram' tvaa padam' sadya aashritaaste katham' janaah' .
maa tarantvaapadam' sadya aadyam' shreyah' samaashritaah' ..
bhaati tvattanusam'shleshe satyamba vapuranuttaram .
sam'saaraabdhau sadaahuste satyam' vapuranuttaram ..
yachchha me nityasam'sangi yachchhame tadidam' manah' .
svachchhalo bhaktiyogaste svachchhalokavivekasooh' ..
ke valante vitanvantakri'tastvatpranataa bhave .
kevalam' te vitanvanta aasate vimalaam' dhiyam ..
devi nirdagdhakaamasya tvam' niraavaranaatmanah' .
harasya shubhasantaanam' tenaasau bhraajate tathaa ..
dvishadbhiyaa sapadi vimuchyate yatastavaanato janani jayaashayaa na kah' .
stavaanato jananijayaa shayaanakah' karoti te yudhi madhusoodanasvasah' ..
jyaayonisht'haarivaryaadhiniyamanavarasvairadattaayataajnyaa
svaaraadhatvaasamadhyaaniyajanajanani jnyeyasusthaavabhaasaa .
naanaapunyaagamasthaa jananamanamayajnyaananandyaa varaa dhee-
ryaataa navyaa vibhutvam' nutasaralamanastaamasasyaavahaasye ..
syehaava syaa samastaanamalarasatanu tvam' bhuvi vyaanataaryaa
dheeraa vandyaa na na jnyaa yamanamananajasthaamaganyaa punaanaa .
saa bhaavasthaa suyajnye'ninajanajayani dhyaamasattvaadharaasvaa
jnyaataayattaadarasvairavanamanidhiryaa varisht'haaniyojyaa ..
alolakamale chittalalaamakamalaalaye .
paahi chand'i mahaamohabhangabheemabalaamale ..
durgaapi maatah' sulabhaasi bhaktyaa bhavaanukoolaapi bhavam' kshinoshi .
adhyeyataam' yaasi sadaiva devi dhyeyaasi chitram' charitam' tavaitat ..
mahadesurasandhamme tamavasamaasangamaagamaaharane .
harabahusaranam' tam' chittamohamavasara ume sahasaa ..
vandyaa prabhaatasandhyeva sooryaalokapravartinee .
nivartayasi devi tvam' mahaamohamayeem' nishaam ..
sam'vaadisaarasampatteesadaagorijayesude .
tavasatteerade santu sam'saare susamaanade ..
aagamamanisudamahimasamasam'madakri'daparajassu .
kira savibhayavadito samaya ujjalabhaavasahassu ..
tvam' vaade shaastrasanginyaam' bhaasi vaachi divaukasah' .
tavaadeshaastrasam'skaaraajjayanti varade dvishah' ..
sadaavyaajavashidhyaataah' sadaattajapashikshitaah' .
dadaasyajasram' shivataah' soodaattaajadishi sthitaah' ..
hareh' svasaaram' devi tvaa janataashritya tattvatah' .
vetti svasaaram' devitvaa yogena kshapitaashubhaa ..
sadaapnoti yatirjyotistaadri'sham' svatprabhaavatah' .
prabhaavatah' samo yena kalpate mohanuttitah' ..
tvam' sadgatih' sitaapaaraa paraa vidyottiteershatah' .
sam'saaraadatra chaamba tvam' sattvam' paasi vipattitah' ..
paramaa yaa tapovri'ttiraaryaayaastam' smri'tim' janaah' .
paramaayaata poshaaya dhiyaam' sharanamaadri'taah' ..
pravaadimatabhedeshu dri'shyaste mahimaashrayah' .
bhaanti tvattrishikhasyeva shikhaanaamasamaashrayah' ..
yachchesht'ayaa tava spheetamudaaravasu dhaamatah' .
yachcheto yaatyavahitamudaa ravasudhaamatah' ..
suradeshasya te keertim' mand'anatvam' nayanti yaih' .
varade shasyate dheerairbhavatee bhuvi devataa ..
tattvam' veetaavatatatuttatvam' tatavatee tatah' .
vittam' vittava vittatvam' veetaaveetavataam' bata ..
taare sharanamudyantee suresharanamudyamaih' .
tvam' doshaapaasinodagrasvadoshaa paasi nodane ..
sumaatarakshayaaloka rakshayaattamahaamanaah' .
tvam' dhairyajananee paasi jananeetigunasthiteeh' ..
khyaatikalpanadakshaikaa tvam' saamargyajushaamitah' .
sadaa sarakshasaam'mukhyadaanavaanaamasusthitih' ..
sitaa sam'satsu sattaaste stuteste satatam' satah' .
tataastitaitti tasteti sootih' sootistato'si saa ..
tvadaajnyayaa jagatsarvam' bhaasitam' malanudyatah' .
sadaa tvayaa sagandharvam' samiddhamarinuttitah' ..
yato yaati tato'tyeti yayaa taam' taayataam' yataih' .
maataamitottamatamaa tamoteetaam' matim' mama ..
mahattaam' tvam' shritaa daasajanam' mohachchhidaa vasa .
yachchhaddhatvam' gatah' paapamanyasya prasabham' jaya ..
tvaam' saajnyaasu jaganmaatah' spasht'am' jnyaataa suvartmasu .
prajnyaa mukhyaa samudbhaasi tatpri'thutvam' pradarshaya ..
aajnyaasu jaganmaatah' spasht'am' jnyaataa suvartmasu prajnyaa .
bhaasi tvam' saa mukhyaa samutpri'thutvam' pradarshaya tat ..
hantryo rushah' kshamaa etaa sandakshobhaastamunnatah' .
satehitah' sevate taah' satatam' yah' sa te hitah' ..
karoshi taatstvamutkhaatamohasthaane sthiraa mateeh' .
padam' yatih' sutapasaa labhate'tah' sashuklima ..
devyaa svapnodgamaadisht'adeveeshatakasanjnyayaa .
deshitaanupamaamaadhaadato nonasuto nutim ..
haardadhvaantaniyantri'bhaasvaravapuh' svarvaasinaam' sarvato
durvaaraariparikshayam' vidadhatee dhyaataiva larvaanasooh' .
dehaardhe nihitaa bhavena bhuvanatraanaikataanaatmanaa
devi tvam' tvamivaaparaa jagati kaa satkesareendrasthitih' ..
kleshonmaathakaree sataam' bhavaharaanandaikaheto guru-
rmaataa tvam' jagataam' bhavanti vidhavaah' sarve tavaanugrahaat .
durge na kvachideva seedati janastvadbhaktipootaashayah'
stutyaa bharturabhinnayeti vibudhaistvam' stooyase shreeriva ..
yenaanandakathaayaam' tridashaanande cha laalitaa vaanee .
tena sudushkarametatstotram' devyaah' kri'tam' bhaktyaa ..