एतावन्तं समयं सर्वापद्भ्योऽपि रक्षणं कृत्वा।
ग्रामस्य परमिदानीं ताटस्थ्यं केन वहसि दुर्गाम्ब।
अपराधा बहुशः खलु पुत्राणां प्रतिपदं भवन्त्येव।
को वा सहते लोके सर्वांस्तान् मातरं विहायैकाम्।
मा भज मा भज दुर्गे ताटस्थ्यं पुत्रकेषु दीनेषु।
के वा गृह्णन्ति सुतान् मात्रा त्यक्तान् वदाम्बिके लोके।
इतः परं वा जगदम्ब जातु ग्रामस्य रोगप्रमुखावतोऽस्य।
न स्युस्तथा कुर्वचलां कृपामित्यभ्यर्थनां मे सफलीकुरुष्व।
पापहीनजनतावनदक्षाः सन्ति निर्जरवरा न कियन्तः।
पापपूर्णजनरक्षणदक्षास्त्वां विना भुवि परां न विलोके।