१ - ॐ शं शनैश्चराय नमः ।
२ - ॐ ह्रीं श्रीं ग्रहचक्रवर्तिने शनैश्चराय क्लीं ऐंसः स्वाहा ।
३ - ह्रीं क्लीम् शनैश्चराय नमः ।
नीलांजनसमाभासं रविपुत्रं यमाग्रजम् ।
छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ।
१ - ॐ काकध्वजाय विद्महे खड्गहस्ताय धीमहि तन्नो मन्दः प्रचोदयात् ॥
२ - ॐ शनैश्चराय विद्महे सूर्यपुत्राय धीमहि तन्नो मन्दः प्रचोदयात् ॥
३ - ॐ सूर्यपुत्राय विद्महे मृत्युरूपाय धीमहि तन्नः सौरिः प्रचोदयात् ॥
४ - ॐ नीलाञ्जनाय विद्महे सूर्यपुत्राय धीमहि तन्नः शनैश्चरः प्रचोदयात् ॥
५ - ॐ भगभवाय विद्महे मृत्युरूपाय धीमहि तन्नः शनैश्चरः प्रचोदयात् ॥
१ - सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः ।
मन्दचारः प्रसन्नात्मा पीडां हरतु मे शनिः ॥
२ - भिन्नाञ्जनचयच्छायः सरक्तनयनद्युतिः ।
शनैश्चरः शिवेभक्तो ग्रहपीडां व्यपोहतु ॥
३ - शने दिनमणेः सूनो ह्यनेकगुणसन्मणे ।
अरिष्टं हर मेऽभीष्टं कुरु मा कुरु सङ्कटम् ॥
अथ शनैश्चरमहामन्त्रप्रारंभः
ॐ अस्य श्रीशनैश्चरमहामन्त्रस्य उरुमित्र ऋषिः ।
गायत्रीछन्दः । शनैश्चरो देवता ।
मम श्रीशनैश्चरग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः ।
शनैश्चराय अङ्गुष्ठाभ्यां नमः ।
मन्दगतये तर्जनीभ्यां नमः ।
अधोक्षजाय मध्यमाभ्यां नमः ।
सौरये अनामिकाभ्यां नमः ।
अभयङ्कराय कनिष्ठिकाभ्यां नमः ।
ऊर्ध्वरोम्णे करतलकरपृष्ठाभ्यां नमः ।
शनैश्चराय हृदयाय नमः ।
मन्दगतये शिरसे स्वाहा ।
अधोक्षजाय शिखायै वषट् ।
सौरये कवचाय हुम् ।
अभयङ्कराय नेत्रत्रयाय वौषट् ।
ऊर्ध्वरोम्णे अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ।
ध्यानम्
नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् ।
चतुर्भुजः सूर्यसुतः प्रशान्तः सदास्तु मह्यं वरदः प्रसन्नः ॥
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
मूलमन्त्रः
ॐ शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑' ।
शं योर॒भिस्र॑वन्तु नः ।
(यथाशक्ति जपेत्)
शनैश्चराय हृदयाय नमः ।
मन्दगतये शिरसे स्वाहा ।
अधोक्षजाय शिखायै वषट् ।
सौरये कवचाय हुम् ।
अभयङ्कराय नेत्रत्रयाय वौषट् ।
ऊर्ध्वरोम्णे अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्विमोकः ।
ध्यानम्
नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् ।
चतुर्भुजः सूर्यसुतः प्रशान्तः सदास्तु मह्यं वरदः प्रसन्नः ॥
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
इति शनैश्चरमहामन्त्रः ।
आयुर्दायकमाजिनैषधनुतं भीमं तुलोच्चं शनिं
छाया-सूर्यसुतं शरासनकरं दीपप्रियं काश्यपम् ।
मन्दं माष-तिलान्न-भोजनरुचिं नीलांशुकं वामनं
शैवप्रीति-शनैश्चरं शुभकरं गृध्राधिरूढं भजे ॥ ७॥
शन्नो देवीति मन्त्रस्य सिन्धुद्वीप ऋषिः, गायत्रीछन्दः आपो देवता, शनिप्रीत्यर्थे जपे विनियोगः ।
अथ न्यासः -
शन्नो शिरसि । देवीः ललाटे । अभिष्टय मुखे । आपो कण्ठे । भवन्तु हृदये । पीतये नाभौ । शं कट्याम् । योः ऊर्वोः । अभि जान्वोः । स्रवन्तु गुल्फयीः । नः पादयोः ।
अथ करन्यासः -
शन्नो देवीः अङ्गुष्ठाभ्यां नमः । अभिष्टये तर्ज्जनीभ्यां नमः । आपो भवन्तु मध्यमाभ्यां नमः । पीतये अनामिकाभ्यां नमः । शंय्योरभि कनिष्ठिकाभ्यां नमः । स्रवन्तु नः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः -
शन्नो देवीः हृदयाय नमः । अभिष्टये शिरसे स्वाहा । आपो भवन्तु शिखायै वषट् । पीतये कवचाय हुँ । शन्थ्योरभि नेत्रत्रयाय वौषट् । स्रवन्तु नः अस्त्राय फट् ॥
अथ ध्यानं -
नीलाम्बरः शूलधरः किरीटी गृघ्रस्थितस्त्रासकरो धनुष्मान् ।
चतुर्भुजः सूर्यसुतः प्रशान्तः सदाऽस्तु मह्यं वरदोऽल्पगामी ॥ १॥
शनिगायत्री -
ॐ कृण्णाङ्गाय विद्महे रविपुत्राय धीमहि तन्नः सौरिः प्रचोदयात् ॥ १॥
जपमन्त्रः -
खाँ खीं खौं सः ॐ भूर्भुवः स्वः ॐ शन्नो देवीरभिष्टय।आपो भवन्तु पीतये शंय्योरभिस्रवन्तु नः । ॐ स्वः भुवः भूः ॐ सः खौं खीं खाँ ॐ शनैश्चराय नमः ॥
मण्डले धनुराकारे संस्थितः सूर्यनन्दन ।
नीलदेह समुत्तिष्ठ प्राणपीडोपशान्तये ॥
चापासनस्थ वरगृध्ररथप्रयाण कालाञ्जनाभ यमसोदर काकवाह ।
भक्तप्रजावनसुदीक्षित शम्भुसेविन् श्री भास्करात्मज शनैश्चर सुप्रभातम् ॥
संसारसक्तजनदुष्परिस्वप्रदातः भक्तिप्रपन्नजनमङ्गलसन्निधातः ।
श्रीपार्वतीपतिदयामयदृष्टिप्रवाच श्री भास्करात्मज शनैश्चर सुप्रभातम् ॥
तैलान्नदीपतिलनीलसुपुष्पसक्तः कुम्भादिपत्यमकराधिपये वहित्वम् ।
निर्भीक कामित फलप्रद नीलवासः श्री भास्करात्मज शनैश्चर सुप्रभातम् ॥
ॐ शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚। शंयोर॒भिस्र॑वन्तु नः ॥
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यꣳस्या॑म॒ पत॑यो रयी॒णाम् ।
इ॒मं य॑मप्रस्त॒रमाहि सीदाऽङ्गि॑रोभिः पि॒तृभि॑स्संविदा॒नः ।
आत्वा॒ मन्त्राः᳚ कविश॒स्ता व॑हन्त्वे॒ना रा॑जन् ह॒विषा॑ मादयस्व॥
ॐ अधिदेवता प्रत्यधिदेवता सहिताय शनैश्च॑राय॒ नमः॑ ॥
१ - ॐ सौरिं गृध्रगतातिकृष्णवपुषं कालाग्निवत् सङ्कुलं
संयुक्तं भुजपल्लवैरुपलसत्स्तम्भैश्चतुर्भिः समैः ।
भीमं चोग्रमहाबलातिवपुषं बाधागणैः संयुतं
गोत्रं काश्यपजं सुराष्ट्रविभवं कालाग्निदैवं शनिम् ॥
२ - वस्त्रैः कृष्णमयैर्युतं तनुवरं तं सूर्यसूनुं भजे ॥
३ - ध्यायेन्नीलशिलोच्चयद्युतिनिभं नीलारविन्दासनं
देवं दीप्तविशाललोचनयुतं नित्यक्षुधाकोपिनम् ।
निर्मांसोदरशुष्कदीर्घवपुषं रौद्राकृतिं भीषणं
दीर्घस्मश्रुजटायुतं ग्रहपतिं सौरं सदाहं भजे ॥
४ - शुद्धात्म ज्ञान परिशोभित कालरूप
छायासुनन्दन यमाग्रज क्रूरचेष्ट ।
कष्टाद्यनिष्ठकर धीवर मन्दगामिन्
मार्तंडजात मम देहि करावलम्बम्
५ - दिवाकर-तनूजं शनैश्चरं धीरतरं सन्ततं चिन्तयेऽहम् ।
भवाम्बु-निधौ निमग्न-जनानां भयंकरं अति-क्रूर-फलदं
भवानीश-कटाक्ष-पात्र-भूत-भक्तिमतां अतिशय-शुभ-फलदम् ।
कालाञ्जन-कान्ति-युक्त-देहं काल-सहोदरं काक-वाहं
नीलांशुक-पुष्प-मालावृतं नील-रत्न-भूषणालङ्कृतं
मालिनी-नुतं गुरुगुह-मुदितं मकर-कुम्भ-राशि- नाथं तिल-
तैल-मिश्रितान्न-दीप-प्रियं दया-सुधा-सागरं निर्भयं
काल-दण्ड-परिपीडित-जानुं कामितार्थ-फलद-कामधेनुं
काल-चक्र-भेद-चित्र-भानुं कल्पित-छाया-देवी-सूनुम् ॥
६ - नीलाञ्जनाभं मिहिरेष्टपुत्रं ग्रहेश्वरं पाशभुजङ्गपाणिम् ।
सुरासुराणां भयदं द्विबाहुं शनिं स्मरे मानसपङ्कजेऽहम्
७ - मन्दः पाशिमुखः शमीसमिदथो सौराष्ट्रपः काश्यपो
नक्रादि द्वयपो हितो बुधसितौ सूर्येन्दुभौमाः पराः ।
स्थानं पश्चिमदिक् प्रजापतियमौ देवौ धनुष्यासनः
षट्त्रिस्थः शुभकृत् शमी रविसुतः कुर्यात् सदा मङ्गलम् ॥
८ - सौरिः कृष्णरुचिश्चपश्चिममुखः सौराष्ट्रपः काश्यपो
नाथः कुम्भमृगर्क्षयोः प्रियसुहृच्छुक्रज्ञयोर्गृध्रगः ।
षट्त्रिस्थश्शुभदोऽशुभो तनुगतिश्चापाकृतौ मण्डले
सन्तिष्ठन् चिरजीवितादि फलदः कुर्यात् सदा मङ्गलम् ॥
१. चोदक - जो योग में उतरने के लिए प्रेरणा देते हैं २. बोधक - जो योगाभ्यास सिखाते हैं ३. मोक्षद - जो अपने शिष्य को मोक्ष तक पहुंचाते हैं।
कबीरदास जी के अनुसार आदि राम - एक राम दशरथ का बेटा, एक राम घट घट में बैठा, एक राम का सकल उजियारा, एक राम जगत से न्यारा - हैं। दशरथ के पुत्र राम परमात्मा, जगत की सृष्टि और पालन कर्ता हैं।
श्री रामजी विश्वामित्र के यज्ञ की रक्षा करते हैं
ऋतवाक मुनि को कुपुत्र पैदा होता है
गंडांत दोष के साथ जन्म हुआ तो क्या होगा, जानिए....
Click here to know more..सरस्वती अष्टक स्तोत्र
अमला विश्ववन्द्या सा कमलाकरमालिनी। विमलाभ्रनिभा वोऽव्�....
Click here to know more..