15.9K
1.1K

Comments

c36ub

Harivarasanam lyrics

हरिवरासनं विश्वमोहनम् हरिदधीश्वरमाराध्यपादुकम् । अरिविमर्दनं नित्यनर्तनम् हरिहरात्मजं देवमाश्रये ॥ १॥ चरणकीर्तनं भक्तमानसम् भरणलोलुपं नर्तनालसम् । अरुणभासुरं भूतनायकम् हरिहरात्मजं देवमाश्रये ॥ २॥ प्रणयसत्यकं प्राणनायकम् प्रणतकल्पकं सुप्रभाञ्चितम् । प्रणवमन्दिरं कीर्तनप्रियम् हरिहरात्मजं देवमाश्रये ॥ ३॥ तुरगवाहनं सुन्दराननम् वरगदायुधं वेदवर्णितम् । गुरुकृपाकरं कीर्तनप्रियम् हरिहरात्मजं देवमाश्रये ॥ ४॥ त्रिभुवनार्चितं देवतात्मकम् त्रिनयनप्रभुं दिव्यदेशिकम् । त्रिदशपूजितं चिन्तितप्रदम् हरिहरात्मजं देवमाश्रये ॥ ५॥ भवभयापहं भावुकावकम् भुवनमोहनं भूतिभूषणम् । धवलवाहनं दिव्यवारणम् हरिहरात्मजं देवमाश्रये ॥ ६॥ कलमृदुस्मितं सुन्दराननम् कलभकोमलं गात्रमोहनम् । कलभकेसरीमाजिवाहनम् हरिहरात्मजं देवमाश्रये ॥ ७॥ श्रितजनप्रियं चिन्तितप्रदम् श्रुतिविभूषणं साधुजीवनम् । श्रुतिमनोहरं गीतलालसम् हरिहरात्मजं देवमाश्रये ॥ ८॥

What is the pravara of Agastya gotra?

Agastya-Tardhachyuta-Saumavaha

Quiz

What was the original name of Mount Abu ?
Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |